रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 51 to 60 of 81 verses
Verse 51
परेषु स्वेषु च क्षिप्तैरविज्ञातपरस्परैः । सोऽपसर्पैर्जजागार यथाकालं स्वपन्नपि ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): परेष्विति॥ यथाकालमुक्तकालानतिक्रमेण स्वपन्नपि सोऽतिथिः परेषु शत्रुषु स्वेषु स्वकीयेषु च। मन्त्र्यादितीर्थेष्विति शेषः। क्षिप्तैः प्रहितैरविज्ञाताः परस्परे येषां तैः। अन्योन्याविज्ञातैरित्यर्थः। अपसर्पैश्चरैः। `अपसर्पश्चरः स्पशः` इत्यमरः (अ.को.2|8|13)। जजागार बुद्धवान्। चारमुखेन सर्वदा सर्वमज्ञासीदित्यर्थः। अत्र कामन्दकः-`चारन्विचारयेत्तीर्थेष्वात्मनश्च परस्य च। पाषण्ड्यादीनविज्ञातानन्योन्यमितरैरपि ॥` इति ॥

Verse 52
दुर्गाणि दुर्ग्राहाण्यासंस्तस्य रोद्धुरपि द्विषाम् । न हि सिंहो गजास्कन्दी भयाद्गिरिगुहाशयः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): दुर्गाणीति॥ द्विषां रोद्धू रोधकस्यापि, न तु स्वयं रोध्यस्येत्यर्थथः। तस्य राज्ञो दुर्ग्रहाणि परैर्दुर्धर्षाणि दुर्गाणि महीदुर्गदीन्यासन्। न च निर्भीकस्य किं दुर्गैरिति वाच्यमित्यर्थान्तरन्यासमुखेनाह-न हीति॥ गजानास्कन्दति हिनस्तीति गजास्कन्दि सिंहो भयाद्धेतोः। गिरिगुहासु शेत इति गिरिगुहाशयो न हि, किंतु स्वभाव एवेति शेषः `अधिकरणे शेतेः` (पा.3।2।15) इत्यच्प्रत्ययः। अत्र मनुः (7।70)-`धन्वदुर्गं महीदुर्गमब्दुर्गं वार्क्षमेव वा । नृदुर्गं गिरिदुर्गं वा समाश्रित्य वसेत्पुरम् ॥` इति ॥

Verse 53
भव्यमुख्याः समारम्भाः प्रत्यवेक्ष्यानिरत्ययाः । गर्भशालिसधर्माणस्तस्य गूढं विपेचिरे ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): भव्येति॥ भव्यमुख्याः कल्याणप्रधानाः, न तु विपरीताः। प्रत्यवेक्षां `एतावत्कृतमेतावत्कर्तव्यम्` इत्यनुसंधानेन विचारणीयाः। अत एव निरत्यया निर्बाधा गर्भेऽभ्यन्तरे पच्यते ये शालयस्तेषां सधर्माणः। अतिनिगूढा इत्यर्थः। `धर्मादनिच्केवलात्` (पा.5।4।124) इत्यनिच्प्रत्ययः समासान्तः। तस्य राज्ञः समारभ्यन्त इति समारम्भाः कर्माणि गूढमप्रकाशं विपेचिरे । फलिता इत्यर्थः। `फलानुमेयाः प्रारम्भाः` इति भावः ॥

Verse 54
अपथेन प्रववृते न जातूपचितोऽपि सः । वृद्धौ नदीमुखेनैव प्रस्थानं लवणाम्भसः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): अपथेनेति॥ सोऽतिथिरुपचितोऽपि वृद्धिं गतोऽपि सन्। जातु कदाचिदप्यपथेन कुमार्गेण न प्रववृते न प्रवृत्तः। मर्यादां न जहावित्यर्थः। तथा हि-लवणाम्भसो लवणसागरस्य वृद्धौ पूरोत्पीडे सत्यां नदीमुखेनैव नदीप्रवेशमार्गेणैव प्रस्थानं निःसरणम्, न त्वन्यथेत्यर्थः ॥

Verse 55
कामं प्रकृतिवैराग्यं सद्यः शमयितुं क्षमः । यस्य कार्यः प्रतीकारः स तन्नैवोदपादयत् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): काममिति॥ प्रकृतिवैराग्यं प्रजाविरागम्। दैवादुत्पन्नमिति शेषः। सद्यः कामं सम्यक् शमयितुं प्रतिकर्तुं क्षमः शक्तः स राजा यस्य प्रकृतिवैराग्यस्य प्रतीकारः कार्यः कर्तव्यः। अनर्थहेतुत्वादित्यर्थः। तद्वैराग्यं नोदपादयत् । उत्पन्नप्रतीकारादनुत्पादनं वरमिति भावः। अत्र कौटिल्यः-`क्षीणाः प्रकृतयो लोभं लुब्धा यान्ति विरागताम्। विरक्ता यान्त्यमित्रं वा भर्तारं घ्नन्ति वा स्वयम्॥` तस्मात्प्रकृतीनां विरागकारणानि नोत्पादयेदित्यर्थः ॥

Verse 56
शक्येष्वेवाभवद्यात्रा तस्य शक्तिमतः सतः । समीरणसहायोऽपि नाम्भःप्रार्थी दवानलः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): शक्येष्विति॥ शक्तिमतः शक्तिसंपन्नस्यापि सतस्तस्य राज्ञः शक्येषु शक्तिविषयेषु स्वस्माद्धीनबलेष्वेव विषये यात्रा दण्डयात्राऽभवत्। न तु समधिकेष्वित्यर्थः। तथा हि-समीरणसहायोऽपि दवानलोऽम्भः प्रार्थी जलान्वेषी न। दग्धुमिति शेषः। किंतु तृणकाष्ठादिकमेवान्विष्यतीत्यर्थः । अत्र कौटिल्यः- `समज्यायोभ्यां संदधीत, हीनेन विगृह्णीयत्` इति ॥

Verse 57
न धर्ममर्थकामाभ्यां बबाधे न च तेन तौ । नार्थं कामेन कामं वा सोऽर्थेन सदृशस्त्रिषु ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): न धर्ममिति॥ स राजा। अर्थकामाभ्यां धर्मं न बबाधे न नाशितवान्। तेन धर्मेण! च तावर्थ-कामौ न। अर्थं कामेन कामं वाऽर्थेन न बबाधे। एकत्रैवासक्तो नाभूदित्यर्थः। किंतु त्रिषु धर्मार्थकामेषु सदृशस्तुल्यवृत्तिः। अभूदित्यर्थः ॥

Verse 58
हीनान्यनुपकर्तॄणि प्रवृद्धानि विकुर्वते । तेन मध्यमशक्तीनि मित्राणि स्थापितान्यतः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): हीनानिति॥ मित्राणि हीनान्यतिक्षीणानि चेत्, अनुपकर्तॄण्यनुपकारीणि। प्रवृद्धान्यतिसमृद्धानि चेद्विकुर्वते विरुद्धं चेष्टते। अपकुर्वत इत्यर्थः। `अकर्मकाञ्च` (पा.1।3।45) इत्यात्मनेपदम्। अतः कारणात्तेन राज्ञा मित्राणि सुहृदः। `मित्रं सुहृदि मित्रोऽर्के` इति विश्वःष। मध्यमशक्तीनि नातिक्षीणोच्छ्रितानि यथा- स्यात्तथा स्थापितानि ॥

Verse 59
परात्मनोः परिच्छिद्य शक्त्यादीनां बलाबलम् । ययावेभिर्मलिष्ठश्चेत्परस्मादास्त सोऽन्यथा ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): परेति॥ सोऽतिथिः परात्मनोः शत्रोरात्मनश्च शक्त्यादीनां शक्तिदेशकालादीनां बलाबलं न्यूनाधिकभावं परिच्छिद्य निश्चित्य। एभिः शक्त्यादिभिः परस्माच्छत्रोर्बलिष्ठः स्वयमतिशयेन वलवांश्चेत्। `बल`शब्दान्मतुबन्तादिष्ठन्प्रत्ययः। `विन्मतोर्लुक्` (पा.5।3।65) इति मतुपो लुक्। ययौ यात्रां चक्रे। अन्यथा न बलिष्ठश्चेत्। आस्तातिष्ठत्। न ययावित्यर्थः। अत्र मनुः(7।171)-`यदा मन्येत भावेन हृष्टं पुष्टं बलं स्वकम्। परस्य विपरीतं च तदा यायाद्रिपून्प्रति॥ यदा तु स्यात्परिक्षीणो वाहनेन बलेन च। तदासीत प्रयत्नेन शनकैः सान्त्वयन्नरीन्` इति ॥

Verse 60
कोशेनाश्रयणीयत्वमिति तस्यार्थसंग्रहः । अम्बुगर्भो हि जीमूतशअचातकैरभिनन्द्यते ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): कोशेनेति॥ कोशेनार्थचयेन। आश्रणीयत्वं भजनीयत्वम्। भवतीति शेषः। इति हेतोस्तस्य राज्ञः कर्तुः अर्थसंग्रहः। न तु लोभादित्यर्थः। तथा हि-अम्बु गर्भे यस्य सोऽम्बुगर्भः, जीवनस्य जलस्य मूतः पुटबन्धो जीमूतो मेघः। `मूङ् बन्धने`। पृषोदरादित्वात्साधुः। चातकैरभिनन्द्यते सेव्यते। न तु कर्तरि क्तः। अत्र कामन्दकः-`धर्महेतोस्तथाऽर्थाय मृत्यानां रक्षणाय च। आपदर्थं च संरक्ष्यः कोशो धर्मवता सदा ॥` इति ॥