रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 71 to 80 of 81 verses
Verse 71
प्रवृद्धौ हीयते चन्द्रः समुद्रोऽपि तथाविधः । स तु तत्समवृद्धिश्च न चाभूत्ताविव क्षयी ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): प्रवृद्धाविति॥ प्रवृद्धौ सत्यां चन्द्रो हीयते। समुद्रोऽपि तथाविधश्चन्द्रवदेव प्रवृद्धौ हीयते। `प्रवृद्ध` इति वा पाठः। स राजा तु ताभ्यां चन्द्र-समुद्राभ्यां समा वृद्धिर्यस्य स तत्समवृद्धिश्चाभूत्। तौ चन्द्रसमुद्राविव क्षयी। `जिदृक्षि-` (पा.3।2।157) इत्यादिनेनिप्रत्ययः। नाभूत् ॥

Verse 72
सन्तस्तस्याभिगमनादत्यर्थं महतः कृशाः । उदधेरिव जीमूताः प्रापुर्दातृत्वमर्थिनः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): सन्त इति॥ अत्यर्थं कृशा दरिद्रा अत एवार्थिनो याचनशीलाः सन्तो विद्वांसो महतस्तस्य राज्ञोऽभिगमनात् उदधेरभिगमनाज्जीमूता इव। दातृत्वं प्रापुः, अर्थिषु दानभोगपर्याप्तं धनं प्रयच्छतीत्यर्थः ॥

Verse 73
स्तूयमानः स जिह्नाय स्तुत्यमेव समाचरन् । तथापि ववृधे तस्य तत्कारिद्वेषिणो यशः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): स्तूयमान इति॥ स राजा स्तुत्यं स्तोत्रार्हमेव यत्तदेव समाचरन्नत एव स्तूयमानः सन् जिह्नाय ललज्ज। तथापि हीनत्वेऽपि तत्कारिणः स्तोत्रकारिणो द्वेष्टीति तत्कारिद्वेषिणस्तस्य राज्ञो यशो ववृधे। `गुणाढ्यस्य सतः पुंसः स्तुतौ लज्जेव भूषणम्` इति भावः ॥

Verse 74
दुरितं दर्शनेन घ्नंस्तत्त्वार्थेन नुदंस्तमः । प्रजाः स्वतन्त्रयांचक्रे शश्वत्सूर्य इवोदितः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): दुरितमिति॥ स राजा। उदितः सूर्य इव। दर्शनेन दुरितं घ्नन्निवर्तयन्। तथा च स्मर्यते-`अग्निचित्कपिला सत्री राजा भिक्षुर्महोदधिः। दृष्टमात्राः पुनन्त्येते तस्मात्पश्येत नित्यशः ॥` इति। तत्त्वस्य वस्तुतत्त्वस्यार्थेन समर्थनेन च तमोऽज्ञानं ध्वान्तं च नुदन् शश्वत्प्रजाः स्वतन्त्रयांचक्रे स्वाधीनाश्चकार ॥

Verse 75
इन्दोरगतयः पद्मे सूर्यस्य कुमुऽदेंशवः । गुणास्तस्य विपक्षेऽपि गुणिनो लेभिरेऽन्तरम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): इन्दोरिति॥ इन्दोरंशवः पद्मेऽगतयः। प्रवेशरहिता इत्यर्थः। सूर्यस्यांशवः कुमुदेऽगतयः। गुणिनस्तस्य गुणास्तु विपक्षे शत्रावप्यन्तरमवकाशं लेभिरे प्रापुः ॥

Verse 76
पराभिसंधानपरं यद्यप्यस्य विचेष्टितम् । जिगीषोरश्वमेधाय धर्म्यमेव बभूव तत् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): परेति॥ अश्वमेधाय जिगीषोरस्य विचेष्टितं दिग्विजयरूपं यद्यपि पराभिसंधानपरं शत्रुवञ्चनप्रधानं तथापि तद्धर्म्यं धर्मादनपेतमेव। `धर्मपथ्यर्थन्यायादनपेते` (पा.4।4।92) इति यत्प्रत्ययः। बभूव। `मन्त्रप्रभावोत्साहशक्तिभिः परान्संदध्यात्` इति कौटिल्यः ॥

Verse 77
एवमुद्यन्प्रभावेण शास्त्रनिर्दिष्टवर्त्मना । वृषेव देवो देवानां राज्ञां राजा बभूव सः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): एवमिति॥ एवं शास्त्रनिर्दिष्टवर्त्मना शास्त्रोपदिष्टमार्गेण प्रभावेण कोशदण्डजेन तेजसा। `स प्रभावः प्रतापश्च यत्तेजः कोशदण्डजम्` इत्यमरः उद्यन्नुद्युञ्जनः सः। वृषा वासवो देवानां देवो देवदेव इव। राज्ञां राजा राजराजो बभूव ॥

Verse 78
पञ्चमं लोकपालानां तमूचुः साम्ययोगतः । भूतानां महतां षष्ठमष्टमं कुलभूताम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): पञ्चममिति॥ तम्। राजानमिति शेषः। साम्ययोगतो यथाक्रमं लोकसंरक्षणपरोपकारभूधारणरूपसमानधर्मत्वबलाल्लोकपालानामिन्द्रादीनां चतुर्णां पञ्चममूचुः। महतां भूतानां पृथिव्यादीनां षष्ठमूचुः। कुलभूभृतां कुलाचलानां महेन्द्रमलयादीनां सप्तानामष्टममूचुः ॥

Verse 79
दूरापवर्जितच्छत्रैस्तस्याज्ञां शासनार्पिताम् । दधुः शिरोभिर्भूपाला देवाः पौरंदरीमिव ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): दूरेति॥ भूपालाः शासनेषु पत्रेष्वर्पितामुपन्यस्तां तस्य राज्ञ आज्ञाम्। देवाः पौरंदरीमैन्द्रीमाज्ञामिव। दूरापवर्जितच्छत्रैर्दूरात्परिहृतातपत्रैः शिरोभिर्दधुः ॥

Verse 80
ऋत्विजः स तथानर्च दक्षिणाभिर्महाक्रतौ । यथा साधारणीभूतं नामास्य धनदस्य च ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): ऋत्विज इति॥ स राजा महाक्रतावश्वमेधे। ऋत्विजो याजकान् दक्षिणाभिस्तथानर्चार्चयामास। अर्चतेर्भौवादिकाल्लिट्। यथाऽस्य राज्ञो धनदस्य च नाम साधारणीभूतमेकीभूतम्। उभयोरपि धनदसंज्ञा यथा स्यात्तथेत्यर्थः ॥

Showing 71 to 80 of 81 verses