रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 61 to 70 of 81 verses
Verse 61
परकर्मापहः सोऽभूदुद्यतः स्वेषु कर्मसु । आवृणोदात्मनो रन्ध्रं रन्ध्रेषु प्रहरन्रिपून् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): परकर्मेति॥ स राजा परेषां कर्माणि सेतुवार्तादीन्यपहन्तीति परकर्मापहः सन्। `अन्येष्वपि दृश्यते` (पा.3।3।101) इत्यपिशब्दसामर्थ्याद्धन्तेर्डप्रत्ययः। स्वेषु कर्मसूद्यत उद्युक्तोऽभूत्। किंच, रिपून् रन्ध्रेषु प्रहरन्नात्मनो रन्ध्रं व्यसनातिकमावृणोत् संवृतवान्। अत्र मनुः(7।105)-`नास्य च्छिद्रं परो विद्याद्विद्याच्छिद्रं परस्य तु। गूहेत्कर्मं इवाङ्गानि रक्षेद्विवरमात्मनः ॥` इति ॥

Verse 62
पित्रा संवर्धितो नित्यं कृतास्त्रः सांपरायिकः । तस्य दण्डवतो दण्डः स्वदेहान्न व्यशिष्यत ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): पित्रेति॥ दण्डो दमः सैन्यं वा, तद्वतो दण्डवतो दण्डसंपन्नस्य तस्य राज्ञः पित्राकुशेन नित्यं संवर्धितः पुष्टः कृतास्त्रः शिक्षितास्त्रः। संपरायो युद्धम्। `युद्धायत्योः संपरायः` इत्यमरः (अ.को.3|3|159)। तमर्हतीति सांपराथिकः। `तदर्हति` (पा.5।1।63) इति ठक्प्रत्ययः। दण्डः सैन्यम्। `दण्डो यमे मानमेदे लगुडे दमसैन्ययोः` इति विश्वः। स्वदेहान्न व्यशिष्यत नाभिद्यत। स्वदेहेऽपि विशेषणानि योज्यानि। मूनबलं स्वदेहमिवारक्षदित्यर्थः ॥

Verse 63
सर्पस्येव शिरोरत्नं नास्य शक्तित्रयं परः । स चकर्ष परस्मात्तदयस्कान्त इवायसम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): सर्पस्येति॥ सर्पस्य शिरोरत्नमिव। अस्य राज्ञः शक्तित्रयं परः शत्रुर्न चकर्ष। स तु परस्मात् शत्रोः। तत् शक्तित्रयम्। अयस्कान्तो मणिविशेष आयसं लोहविकारमिव चकर्ष ॥

Verse 64
वापीष्विव स्रवन्तीषु वनेषूपवनेष्विव । सार्थीः स्वैरं स्वकीयेषु चेरुर्वेश्मस्विवाद्रिषु ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): वापीष्विति॥ स्रवन्तीषु नदीषु वापीषु दीर्घिकास्वव। `वापी तु दीर्घिका` इत्यमरः (अ.को.1|10|28)। वनेष्वरण्येषु। उपवनेष्वारमेष्विव। `आरामः स्यादुपवनम्` इत्यमरः (अ.को.1|10|28)। अद्रिषु स्वकीयेषु वेश्मस्विव। सार्था वणिक्प्रभृतयः स्वैरं स्वेच्छया चेरुश्चरन्ति स्म ॥

Verse 65
तपो रक्षन्स विघअनेभ्यस्तस्करेभ्यश्च संपदः । यथास्वमाश्रमैश्चक्रे वर्णैरपि षडंशभाक् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तप इति॥ विघ्नेभ्यस्तपो रक्षन्। तस्करेभ्यः संपदश्च रक्षन्। स राजा। आश्रमैर्ब्रह्मचर्यादिभिर्वर्णैरपि ब्राह्मणादिभिश्च यथास्वं स्वमनतिक्रम्य षडंशभाक् चक्रे। यथाक्रममाश्रमैस्तपसो वर्णैः संपदां च षष्ठांशभाक्कृत इत्यर्थः । षष्ठोंऽशः षडंशः। `संख्या` शब्दस्य वृत्तिविषये पूरणार्थत्वमुक्तं प्राक् ॥

Verse 66
खनिभिः सुषुवे रत्नं क्षेत्रैः सस्यं वनैर्गजान् । दिदेश वेतनं तस्मै रक्षासदृशमेव भूः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): खनिभिरिति॥ भूर्भूमिस्तस्मै राज्ञे रक्षासदृशं रक्षणानुरूपमेव वेतनं मृतिं दिदेश ददौ। कथम्? खनिभिराकरैः। `खनिः स्त्रियामाकरः स्यात्` इत्यमरः (अ.को.2|3|7)। रत्नं माणिक्यादिकं सुषुवेऽजीजनत्। क्षेत्रैः सस्यम्। वनैर्गजान् हस्तिनः सुषुवे ॥

Verse 67
स गुणानां बलानां च षण्णां षण्मुखविक्रमः । बभूव विनियोगज्ञः साधनीयेषु वस्तुषु ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ षण्मुखविक्रमः स राजा षण्णां गुणानां संधिविग्रहादीनां बलानां मूलमृत्यादीनां च साधनीयेषु वस्तुषु साध्येष्वर्थेषु विनियोगं जानातीति विनियोगस्य ज्ञ इति वा विनियोगज्ञः। कर्मविवक्षायामुपपदसमासः। `आतोऽनुपसर्गे कः` (पा.3।2।3) इति कप्रत्ययः। शेषविवक्षायां षष्ठीसमासः। `इगुपध`- (पा.3।1।135) इत्यादिना कप्रत्ययः। बभूव। `इदमत्र प्रयोक्तव्यम्` इत्याद्यज्ञासीदित्यर्थः ॥

Verse 68
इति क्रमात्प्रयुञ्जानो राजनीतिं चतुर्विधाम् । आ तीर्थादप्रतीघातं स तस्याः फलमानशे ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): इतीति॥ इति चतुर्विधाम्। सामाद्युपायैरिति शेषः। राजनीतिं दण्डनीतिं क्रमात् सामादिक्रमादेव प्रयुञ्जानः स राजा। आ तीर्थान्मन्त्र्याद्यष्टादशात्मकतीर्थपर्यन्तम्। `योनौ जलावतारे च मन्त्र्याद्यष्टादशस्वपि। पुण्यक्षेत्रे तथा पात्रे तीर्थं स्यात्` इति हलायुधः। तस्या नीतेः फलमप्रतीघातमप्रतिबन्धं यथा तथा आनशे प्राप्तवान्। मन्त्रादिषउ यमुद्दिश्य य उपायः प्रयुज्यते, स तस्य फलतीत्यर्थः॥

Verse 69
कूटयुद्धविधिज्ञेऽपि तस्मिन्सन्मार्गयोधिनि । मेजेऽभिसारिकावृत्तिं जयश्रीर्वीरगामिनी ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): कूटेति॥ कूटयुद्धविधेज्ञेऽपि कपटयुद्धप्रकाराभिज्ञेऽपि सन्मार्गेण योधिनि धर्मयोद्धरि तस्मिन्नतिथौ वीरगामिनी जयश्रीरभिसारिकावृत्तिं मेजे। `कान्तार्थिनी तु या याति संकेतं साऽभिसारिका` इत्यमरः। जयश्रीस्तमन्विष्यागच्छदित्यर्थः ॥

Verse 70
प्रायः प्रतापभग्नत्वादरीणां तस्य दुर्लभः । रणो गन्धद्विपस्येव गन्धभिन्नान्यदन्तिनः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): प्राय इति॥ अरीणां सर्वेषामपि प्रतापेनातितेजसैव भग्नत्वात्तस्य राज्ञः। गन्धेन मदगन्धेनैव भिन्ना भग्ना अन्ये दन्तिनो येन तस्य गन्धद्विपस्येव। प्रायः प्रायेण रणो दुर्लभः। खलर्थयोगेऽपि शेषविवक्षायां षष्ठीमिच्छन्तीत्युक्तम् ॥