रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 31 to 40 of 81 verses
Verse 31
प्रसन्नमुखरागं तं स्मितपूर्वाभिभाषिणम् । मूर्तिमन्तममन्यन्त विश्वासमनुजीविनः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): प्रसन्नेति॥ प्रसन्नो मुखरागो मुखकान्तिर्यस्य तं स्मितपूर्वं यथा तथाऽभिभाषिणमाभाषणशीलं तमतिथिम्। अनुजीविनो मूर्तिमन्तं विग्रहवन्तं विश्वासं विस्रम्भममन्यन्त। `समौ विस्रम्भविश्वासौ` इत्यमरः (अ.को.2|8|23) ॥

Verse 32
स पुरं पुरुहूतश्रीः कल्पद्रुमनिभध्वजाम् । क्रममाणश्चकार द्यां नागेनैरावतौजसा ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ पुरुहूतश्रीः सोऽतिथिः कल्पद्रुमाणां निभाः समाना ध्वजा यस्यास्तां पुरमयोध्याम्। ऐरावतस्य ओज इवौजो बलं यस्य तेन नागेन कुञ्जरेण क्रममाणश्चरन्। `अनुपसर्माद्वा` (पा.1।2।43) इति वैकल्पिकमात्मनेपदम्। द्यां चकार। स्वर्गलोकसदृशीं चकारेत्यर्थः। `द्यौः स्वर्पसुरवर्त्मनोः` इति विश्वः ॥

Verse 33
तस्यैकस्योच्छ्रितं छत्रं मूर्ध्नि तेनामलत्विषा । पूर्वराजवियोगौष्म्यं कृत्स्नस्य जगतो हृतम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तस्येति॥ तस्यैकस्य मूर्ध्नि छत्रमुच्छ्रितमुन्नमितम्। अमलत्विषा तेन छत्रेण कृत्स्नस्य जगतः पूर्वराजस्य कुशस्य वियोगेन यदौष्म्यं संतापस्तद्धृतं नाशितम्। अत्र छत्रोन्नमन-संतापहरणलक्षणयोः कारणकार्ययोर्भिन्नदेशत्वादसंगतिरलंकारः। तदुक्तम्-`कार्यकारणयोर्भिन्नदेशत्वे सत्यसंगतिः` इति ॥

Verse 34
धूमादग्नेः शिखाः पश्चादुदयादंशवो रवेः । सोऽतीत्य तेजसां वृत्तिं समयेवोत्थितो गुणैः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): धूमादिति॥ अग्नेर्धूमात्पश्चात्। अनन्तरमित्यर्थः। शिखा ज्वालाः। रवेरुदयात्पश्चादनन्तरमंशवः। उत्तिष्ठन्त इति शेषः। सोऽतिथिस्तेजसामग्न्यादीनां वृत्तिं स्वभावमतीत्य गुणैः समं सह एव। उत्थित उदितः। अपूर्वमिदमित्यर्थः ॥

Verse 35
तं प्रीतिविशदैर्नेत्रैरन्वयुः पौरयोषितः । शरत्प्रसन्नैर्ज्योतिर्भिर्विभावर्य इव ध्रुवम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ पौरयोषितः प्रीत्या विशदैः प्रसन्नैर्नेत्रैः करणैस्तमतिथिम्। अन्वयुरनुजग्मुः। सदृष्टिप्रसारमद्राक्षुरित्यर्थः। कथमिव? शरदि प्रसन्नैर्ज्योतिर्भिर्नक्षत्रैर्विभावर्यो रात्रयो ध्रुवमिव। ध्रुवपाशबद्धत्वात्ताराचक्रस्येत्यर्थः॥

Verse 36
अयोध्यादेवताश्चैनं प्रशस्तायतनार्चिताः । अनुदध्युरनुध्येयं सांनिध्यैः प्रतिमागतैः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): अयोध्येति॥ प्रशस्तेष्वायतनेष्वालयेष्वर्चिता अयोध्यादेवताश्चानुध्येयमनुग्राह्यमेनमतिथिं प्रतिमागतैरर्चासंक्रान्तैः सांनिध्यैः संनिधानैः। अनुदध्युरनुजगृहुः। `अनुध्यानमनुग्रहः` इत्यचुत्पलमालायाम्। तदनुग्रहबुद्ध्या संनिदधुरित्यर्थः ॥

Verse 37
यावन्नाश्यायते वेदिरभिषेकजलाप्लुताः । तावदेवास्य वेलान्तं प्रतापः प्राप दुःसहः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): यावदिति॥ अभिषेकजलैराप्लुता सिक्ता वेदिरमिषेकवेदिः। यावन्नाश्यायते न शुष्यति। कर्तरि लट्। तावदेवास्य राज्ञो दुःसहः प्रतापो वेलान्तं वेलापर्यन्तं प्राप ॥

Verse 38
वसिष्ठस्य गुरोर्मन्त्राः सायकास्तस्य धन्विनः । किं तत्साध्यं यदुभये साधयेयुर्न संगताः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): वसिष्ठस्येति॥ गुरोर्वसिष्ठस्य मन्त्राः। धन्विनस्तस्यातिथेः सायकाः। इत्युभये संगताः सन्तो यत्साध्यं न साधयेयुस्तादृक्साध्यं किम्? न किंचिदित्यर्थः। तेषामसाध्यं नास्तीति भावः ॥

Verse 39
स धर्मस्थसखः शश्वदर्थिप्रत्यर्थिनां स्वयम् । ददर्श संशयच्छेद्यान्व्यवहारानतन्द्रितः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ धर्मे तिष्ठन्तीति धर्मस्थाः सभ्याः। `राज्ञा सभासदः कार्या रिपौ मित्रे च ये समाः`(याज्ञ.2।2) इत्युक्तलक्षणाः, तेषां सखा धर्मस्थसखः। तत्सहित इत्यर्थः। अतन्द्रितोऽनलसः स नृपः शश्वत्। अन्वहमित्यर्थः। अर्थिनां साध्यार्थवतां प्रत्यर्थिनां तद्विरोधिनां च संशयच्छेद्यान् संशयाद्धेतोश्छेद्यान्परिच्छेद्यान्। संदिग्धत्वादवश्यनिर्णेयानित्यर्थः। व्यवहारानृणादानादिविवादान्। स्वयं ददर्शानुसंदधौ। न तु प्राड्विवाकमेव नियुक्तवानित्यर्थः। अत्र याज्ञवल्क्यः (व्यव.1)-`व्यवहारान्नृपः पश्येद्विद्वद्भिर्ब्राह्मणैः सह` । इति ॥

Verse 40
ततः परमभिव्यक्तसौमनस्यनिवेदितैः । युयोज पाकाभिमुखैर्भृत्यान्विज्ञापनाफलैः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तत इति॥ ततः परं व्यवहारदर्शनानन्तरं भृत्याननुजीविनः। अभिव्यक्तं मुखप्रसादादिलिङ्गैः स्फुटीभूतं यत्सौमनस्यं स्वामिनः प्रसन्नत्वं तेन निवेदितैः सूचितैः पाकाभिमुखैः सिद्ध्युन्मुखैर्विज्ञापनानां विज्ञप्तीनां फलैः प्रेप्सितार्थैर्युयोज योजयामास। अत्र बृहस्पतिः-`नियुक्तः कर्मनिष्पत्तौ विज्ञप्तौ च यदृच्छया। मृत्यान्धनैर्मानयंस्तु नवोऽप्यक्षोभ्यतां व्रजेत्` इति॥ कविश्च वक्ष्यति-`अक्षोभ्यः-`(17।44) इति अत्र सौमनस्यफलयोजनादिभिर्नृपस्य वृक्षसमाधिर्ध्वन्यत इत्यनुसंधेयम् ॥