अणुअंपाणिद्दोसं तेण वि सा आढमुवऊढा॥ ४२९॥
(गोदावरीविषमावतारच्छलेनात्मा उरसि तस्य क्षिप्तः।
अनुकम्पानिर्दोषं तेनापि सा गाढमुपगूढा॥)
एवं पुनर्भूसामान्ययोः यथासंभवमुत्तमादिभेदोऽभ्यूहनीयः।
आसु वासकसज्जा अभिसारिका, विप्रलब्धा, खण्डिता, कलहान्तरिता, प्रोषितपतिका, विरहोत्कण्ठिता, स्वाधीनभर्तृका चेति यथासंभवमभ्यूहनीयाः। तत्र—
१. वासकसज्जा यथा—(अमरुः?)
सखि! स विजितो वीणाद्यूते कयाऽप्यपरस्त्रिया पणितमभवत् ताभ्यां तस्मिन् निशाललितं ध्रुवम्।
कथमितरथा शोफालीषु स्खलत्कुसुमास्वपि स्थितवति नभोमध्येऽपीन्दौ प्रियेण विलब्यते?॥ ४३०॥
२. अभिसारिका यथा—(गास. ७.७)