अधीरा मुग्धा यथा—(प्रकाश. ३४.१३१)
सुण्हाए/अ हिअअगुणिअं दीसइ/दावई दिअरस्सं छणपईवेण।
सज्झस—पअंपिअ—त्थण—णीसासंदोलिअ—सिहेण ॥ ४०९॥
(स्नुषाया हृदयगुणितं दृश्यते देवरस्य क्षणप्रदीपेन।
साध्वसप्रकम्पितस्तननिः श्वासान्दोलितशिखेन ॥)
तं किं/कं पि कअं उग्गिणपहरभअवेविरीए वहआए।
पडिआ वि जेण णाआ हत्थाहि लआण दिअरेण॥ ४१०॥
(तत् किमपि कृतमुद्गीर्णप्रहरभयवेपनशीलया वध्वा।
पतिताऽपि येन ज्ञाता हस्ताल्लता न देवरेण॥)