अनूढा मुग्धा यथा—(गास. ४.७८)
जं जं करेसि जं जं च जंपसि/से जह तुमं णिअंसेसि/अच्छेसि।
तं तमणुसिक्खिरीए दीहो दिअहो ण संपल/डइ॥ ४१३॥
(यद् यत् करोषि यद् यच्च जल्पसि यथा त्वं निवस/निरीक्षसे।
तत्तदनुशिक्षणशीलया दीर्घो दिवसो न संपद्यते॥)
धीरा मध्या यथा—(गास. १.२१)
असमत्तमंडण विअ/च्चि वच्च घरं से सकोउहल्लस्स।
वोलाविअ—हलहलअस्स पुत्ति! चित्ते ण लग्गिहिसि॥ ४१४॥
(असमाप्तमण्डनैव व्रज गृहं तस्य सकौतूहलस्य।
व्यतिक्रान्तौत्सुंक्यस्य पुत्रि ! चित्ते न लगिष्यसि॥)