निकुम्भो वानरेन्द्रस्य प्राहैषीत्परिघं ततः । हनूमांश्चाऽऽपतन्तं तमभाङ्क्षीद्भोगि-भीषणम् ॥
Metre: अनुष्टुप्
प्रौर्णुवीत्तेजसाऽरातिमरासीच्च भयंकरम् । ग्रीवां चाऽस्य तथाक्राक्षीदजिजीवद्यथा न तम् ॥
Metre: अनुष्टुप्
समगतकपि-सैन्यं सम्मदेनाऽतिमात्रं विटप-हरिण-नाथः सिद्धिमौहिष्ट नित्याम् । नृ-पति-मतिररंस्त प्राप्त-कामेव हर्षात्रजनि-चर-पतीनां सन्ततोऽतायि शोकः ॥
Metre: मालिनी