ज्ञायिष्यन्ते मया चाऽद्य वीरं-मन्या द्विषद्-गणाः । गूहिष्यामि क्षितिं कृत्तै- रद्य गात्रैर्वनाकसाम् ॥
Metre: अनुष्टुप्
आरोक्ष्यामि युगान्त-वारिद-घटा- संघट्ट-धीर-ध्वनिं निर्यास्यन्रथमच्छ्रित-ध्वज-धनुः- खड्ग-प्रभा-भासुरम्। । श्रोष्यस्यद्य विकीर्ण-वृक्ण-विमुख- व्यापन्न-शत्रौ रणे तृप्तांश्छोणित-शोण-भीषणमुखान्क्रव्याऽशिनः क्रोशतः।" ॥
Metre: शार्दूलविक्रीडितम्