यथा पृष्ठमध्यनिपतद्बाष्पधारा दृश्यन्ते॥)
अधीराऽनूढा यथा—(गास. ७.९६)
एण्हिं वारेइ जणो, तइआ मूअल्ल/मअल्लिओ? ज(क)हिं/जहिं वि गओ ?।
जाहे विसं व जाअं/विसमं सव्वंगपहोलिरं पेम्मं॥ ४०३॥
(इदानीं वारयति जनस्तदा मूकीकृताः? कुत्रापि (वा) गतः ?।
यदा विषमिव जातं सर्वाङ्गघूर्णनशीलं प्रेम॥)
करिमआणंदवटं भामिज्जंतं वहूएँ बधूहिं।
पेच्छइ कुमारिजारो हासुम्मिस्सेहि अच्छीहिं॥ ४०४॥