यथा तस्य मत्सरिण्याऽपि दूत्यं जायया प्रतिपन्नम्॥)
अकअण्णुअ! तुज्झ कए वा/पाउसराईसु जं मए खुण्णं।
उप्पेक्खिमो अलज्जिर! अज्ज वि तं गामचिक्खल्लं॥ ३९९॥
(अकृतज्ञ! तव कृते प्रावृड्रात्रिषु यो मया क्षुण्णः।
उत्पश्याम्य/उत्प्रेक्षामहे अलज्जाशील! अद्यापि तं ग्रामपङ्कम्॥)
धीराऽनूढा यथा—(गास. ७.४८)
तत्तो च्चिअ होंति कहा विअसंति तहिं तहिं समप्पंति।
किं मण्णे माउच्छा! एक्कजुवाणो इमो गामो ?॥ ४००॥
(तत एव भवन्ति कथा विकसन्ति तत्र तत्र समाप्यन्ते।