मध्यमा धीरा प्रगल्भा यथा—(गास. २.९८)
बहुसो वि कहिज्जंतं तुह वअणं मज्झ हत्थसंदिट्ठं।
ण सुअं ति जंपमाणा पुणरुत्तसअं कुणइ अज्जा॥ ३५५॥
(बहुशोऽपि कथ्यमानं तव वचनं मम हस्तसंदिष्टम्।
न श्रुतमिति जल्पन्ती पुनरुक्तशतं करोत्यार्या॥)
मध्यमा अधीरा प्रगल्भा यथा—(गास. २.९९)
पाआडिअ—णेह—सब्भाव—णिब्भरं तीए जह तुमं दिट्ठो।
संवरणवावडाए(ण) अण्णो वि जणो तह च्चेअ॥ ३५६॥
(प्रकटितस्नेहसद्भावनिर्भरं तया यथा त्वं दृष्टः।
संवरणव्यापृतया (न) अन्योऽपि जनस्तथैव॥)