मध्यमा अधीराऽनूढा मध्या यथा—(गास. ५.४१)
जम्मंतरे वि चलणे जीएण खु मअण! तुज्झ अच्चिस्सं।
जइ तं पि तेण बाणेण विज्झसे जेण हं विद्धा॥ ३५३॥
(जन्मान्तरेऽपि चरणौ जीवने खलु मदन! तवार्चयिष्यामि।
यदि तमपि तेन बाणेन विध्यसि येनाहं विद्धा॥)
मध्यमा प्रगल्भा यथा—(गास. ३.१०)
जे समुहागअवोलंतवलिअपिअपेसिअच्छिविच्छोहा।
अम्हं ते मअणसरा जणस्स जे होंति ते होंतु॥ ३५४॥
(ये संमुखागत-व्यतिक्रान्त-वलित-प्रिय-प्रेषिताक्षि-विक्षोभाः।
अस्माकं ते मदनशरा जनस्य ये भवन्ति ते भवन्तु॥)