पुरिससअहिअअधरिए कीस थणंती थणे वहसि?॥ ३१३॥
(प्रतिपक्षमन्तुपुञ्जौ लावण्योटजावनङ्गगजकुम्भौ।
पुरुषशतहृदयधृतौ किमिति स्तनंती स्तनौ वहसि ?॥)
अंदोलआइ भोइअधूआ जहणप्पवाणपीढाइ।
वज्झंति घरपरोहड—पंगणभाएसु तरुणेहिं॥ ३१४॥
(आन्दोलनानि ग्रामणीदुहितृ—जघन—प्रमाण—पीठानि।
वध्यन्ते गृहपश्चाद्भाग—प्राङ्गणभागेषु तरुणैः॥)
संदट्ठाहरजुअलं कंपितकओलअक्खिअं सहइ।