परिपाडिपरिच्छणवावडाओ कुप्पंति कुमरीओ॥ ३०७॥
{बहुवल्लभ ! वर्तमानाः लतायामान्दोलमानोरस्काः।
परिपाटीपरीक्षणव्यापृताः कुप्यन्ति कुमार्यः॥}
उत्तमा अधीरोढा मुग्धा यथा—(गास. १.९६)
णासं व सा कओले अज्ज वि तुह दंतमंडलं बाला।
उब्भिब्ण-पुलअ-वइ-परिगअं रक्खइ वराई॥ ३०८॥
(न्यासमिव सा कपोले अद्यापि तव दन्तमण्डलं बाला।
उद्भिन्नपुलकवृतिवेष्टनपरिगतं रक्षति वराकी॥)
उत्तमा अधीराऽनूढा मुग्धा यथा—
णव—लअ—पहर—कुण्णिग्गाए तं कअं किं पि सुहअ! कमुरीए।