समानेऽपि हि सौभ्रात्रे यथोभौ रामलक्ष्मणौ । तथा भरतशत्रुघ्नौ प्रीत्या द्वन्द्वं बभूवतुः ॥
Metre: अनुष्टुप्
तेषां द्वयोर्द्वयोरैक्यं बिभिदे न कदाचन । यथा वायुविभावस्वोर्यथा चन्द्रसमुद्रयोः ॥
Metre: अनुष्टुप्
ते प्रजानां प्रजानाथास्तेजसा प्रश्रयेण च । मनो जह्नुर्निदाघान्ते श्यामाभ्रा दिवसा इव ॥
Metre: अनुष्टुप्
स चतुर्धा बभौ व्यस्तः प्रसवः पृथिवीपतेः । धर्मार्थकाममोक्षाणामवतार इवाङ्गवान् ॥
Metre: अनुष्टुप्
गुणैराराधयामासुस्ते गुरुं गुरुवत्सलाः । तमेव चतुरन्तेशं रत्नैरिव महार्णवाः ॥
Metre: अनुष्टुप्
सुरगज इव दन्तैर्भग्नदैत्यासिधारैर्नय इव पणबन्धव्यक्तयोगैरुपायैः । हरिरिव युगदीर्घैर्दोर्भिरंशैस्तदीयैः पतिरवनिपतीनां तैश्चकाशे चतुर्भिः ॥
Metre: मालिनी