पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Enable Parallel


Showing 1021 to 1030 of 1051 verses
तन्मूर्ख त्वया हितमप्यहितं कृतम् । उक्तं च—

Verse 450
पण्डितोऽपि वरं शत्रुर्न मूर्खो हित-कारकः । वानरेण हतो राजा विप्राश्चीरेण रक्षिताः ॥
Metre: अनुष्टुप्

दमनक आह—-कथमेतत् ?

सोऽब्रवीत्- कथा २३

कस्यचिद्राज्ञो नित्यं वानरोऽतिभक्ति-परोऽङ्ग-सेवकोऽन्तः-पुरे अप्यप्रतिषिद्ध-प्रसरोऽतिविश्वास-स्थानमभूत् । एकदा राज्ञो निद्रां गतस्य वानरे व्यजनं नीत्वा वायुं विदधति राज्ञो वक्षः-स्थलोपरि मक्षिकोपविष्टा । व्यजनेन मुहुर्मुहुर्निषिध्यमानापि पुनः पुनस्तत्र एवोपविशति । ततस्तेन स्वभाव-चपलेन मूर्खेण वानरेण क्रुद्धेन सता तीक्ष्णं खड्गमादाय तस्या उपरि प्रहारो विहितः । ततो मक्षिकोड्डीय गता, परं तेन शित-धारेणासिना राज्ञो वक्षो द्विधा जातं राजा मृतश्च । तस्माच्चिरायुरिच्छता नृपेण मूर्खोऽनुचरो न रक्षणीयः ।

अपरमेकस्मिन्नगरे कोऽपि विप्रो महा-विद्वान्परं पूर्व-जन्म-योगेन चौरो वर्तते । तस्मिन्पुरेऽन्य-देशादागतांश्चतुरो विप्रान्बहूनि वस्तूनि विक्रीणतो दृष्ट्वा चिन्तितवान्-अहो केनोपायेनैषां धनं लभे । इति विचिन्त्य तेषां पुरोऽनेकानि शास्त्रोक्तानि सुभाषितानि चातिप्रियाणि मधुराणि वचनानि जल्पता तेषां मनसि विश्वासमुत्पाद्य सेवा कर्तुमारब्धा । अथवा साध्विदमुच्यते—

Verse 451
असती भवति सलज्जा क्षारं नीरं च शीतलं भवति । दम्भी भवति विवेकी प्रियवक्ता भवति धूर्तजनः ॥
Metre: आर्या (१२, १८, १२, १५)

अथ तस्मिन्सेवां कुर्वति तैर्विप्रैः सर्व-वस्तूनि विक्रीय बहु-मूल्यानि रत्नानि क्रीतानि । ततस्तानि जङ्घा-मध्ये तत्-समक्षं प्रक्षिप्य स्व-देशं प्रति गन्तुमुद्यमो विहितः । ततः स धूर्त-विप्रस्तान्विप्रान्गन्तुमुद्यतान्प्रेक्ष्य चिन्ता-व्याकुलित-मनाः संजातः-अहो धनमेतन्न किंचिन्मम चटितम् । अथैभिः सह यामि । पथि क्वापि विषं दत्त्वैतान्निहत्य सर्व-रत्नानि गृह्णामि । इति विचिन्त्य तेषामग्रे स-करुणं विलप्येदमाह-भो मित्राणि ! यूयं मामेकाकिनं मुक्त्वा गन्तुमुद्यताः । तन्मे मनो भवद्भिः सह स्नेह-पाशेन बद्धं भवद्-विरह-नाम्नैवाकुलं सञ्जातं यथा धृतिं क्वापि न धत्ते । यूयमनुग्रहं विधाय सहाय-भूतं मामपि सहैव नयत ।

तद्-वचः श्रुत्वा ते करुणार्द्र-चित्तास्तेन सममेव स्व-देशं प्रति प्रस्थिताः । अथाध्वनि तेषां पञ्चानामपि पल्ली-पुर-मध्ये व्रजतां ध्वाङ्क्षाः कथयितुमारब्धाः-रे रे किराताः ! धावत धावत । स-पाद-लक्ष-धनिनो यान्ति । एतान्निहत्य धनं नयत ।

ततः किरातैर्ध्वाङ्क्ष-वचनमाकर्ण्य सत्वरं गत्वा ते विप्रा लगुड-प्रहारैर्जर्जरी-कृत्य वस्त्राणि मोचयित्वा विलोकिताः, परं धनं किंचिन्न लब्धम् । तदा तैः किरातैरभिहितम्-भोः पान्थाः ! पुरा कदापि ध्वाङ्क्ष-वचनमनृतं नासीत् । ततो भवतां संनिधौ क्वापि धनं विद्यते तदर्पयत । अन्यथा सर्वेषामपि वधं विधाय चर्म विदार्य प्रत्यङ्गं प्रेक्ष्य धनं नेष्यामः ।