तन्मूर्ख त्वया हितमप्यहितं कृतम् । उक्तं च—
पण्डितोऽपि वरं शत्रुर्न मूर्खो हित-कारकः । वानरेण हतो राजा विप्राश्चीरेण रक्षिताः ॥
Metre: अनुष्टुप्
कस्यचिद्राज्ञो नित्यं वानरोऽतिभक्ति-परोऽङ्ग-सेवकोऽन्तः-पुरे अप्यप्रतिषिद्ध-प्रसरोऽतिविश्वास-स्थानमभूत् । एकदा राज्ञो निद्रां गतस्य वानरे व्यजनं नीत्वा वायुं विदधति राज्ञो वक्षः-स्थलोपरि मक्षिकोपविष्टा । व्यजनेन मुहुर्मुहुर्निषिध्यमानापि पुनः पुनस्तत्र एवोपविशति । ततस्तेन स्वभाव-चपलेन मूर्खेण वानरेण क्रुद्धेन सता तीक्ष्णं खड्गमादाय तस्या उपरि प्रहारो विहितः । ततो मक्षिकोड्डीय गता, परं तेन शित-धारेणासिना राज्ञो वक्षो द्विधा जातं राजा मृतश्च । तस्माच्चिरायुरिच्छता नृपेण मूर्खोऽनुचरो न रक्षणीयः ।
अपरमेकस्मिन्नगरे कोऽपि विप्रो महा-विद्वान्परं पूर्व-जन्म-योगेन चौरो वर्तते । तस्मिन्पुरेऽन्य-देशादागतांश्चतुरो विप्रान्बहूनि वस्तूनि विक्रीणतो दृष्ट्वा चिन्तितवान्-अहो केनोपायेनैषां धनं लभे । इति विचिन्त्य तेषां पुरोऽनेकानि शास्त्रोक्तानि सुभाषितानि चातिप्रियाणि मधुराणि वचनानि जल्पता तेषां मनसि विश्वासमुत्पाद्य सेवा कर्तुमारब्धा । अथवा साध्विदमुच्यते—
असती भवति सलज्जा क्षारं नीरं च शीतलं भवति । दम्भी भवति विवेकी प्रियवक्ता भवति धूर्तजनः ॥
Metre: आर्या (१२, १८, १२, १५)
अथ तस्मिन्सेवां कुर्वति तैर्विप्रैः सर्व-वस्तूनि विक्रीय बहु-मूल्यानि रत्नानि क्रीतानि । ततस्तानि जङ्घा-मध्ये तत्-समक्षं प्रक्षिप्य स्व-देशं प्रति गन्तुमुद्यमो विहितः । ततः स धूर्त-विप्रस्तान्विप्रान्गन्तुमुद्यतान्प्रेक्ष्य चिन्ता-व्याकुलित-मनाः संजातः-अहो धनमेतन्न किंचिन्मम चटितम् । अथैभिः सह यामि । पथि क्वापि विषं दत्त्वैतान्निहत्य सर्व-रत्नानि गृह्णामि । इति विचिन्त्य तेषामग्रे स-करुणं विलप्येदमाह-भो मित्राणि ! यूयं मामेकाकिनं मुक्त्वा गन्तुमुद्यताः । तन्मे मनो भवद्भिः सह स्नेह-पाशेन बद्धं भवद्-विरह-नाम्नैवाकुलं सञ्जातं यथा धृतिं क्वापि न धत्ते । यूयमनुग्रहं विधाय सहाय-भूतं मामपि सहैव नयत ।
तद्-वचः श्रुत्वा ते करुणार्द्र-चित्तास्तेन सममेव स्व-देशं प्रति प्रस्थिताः । अथाध्वनि तेषां पञ्चानामपि पल्ली-पुर-मध्ये व्रजतां ध्वाङ्क्षाः कथयितुमारब्धाः-रे रे किराताः ! धावत धावत । स-पाद-लक्ष-धनिनो यान्ति । एतान्निहत्य धनं नयत ।
ततः किरातैर्ध्वाङ्क्ष-वचनमाकर्ण्य सत्वरं गत्वा ते विप्रा लगुड-प्रहारैर्जर्जरी-कृत्य वस्त्राणि मोचयित्वा विलोकिताः, परं धनं किंचिन्न लब्धम् । तदा तैः किरातैरभिहितम्-भोः पान्थाः ! पुरा कदापि ध्वाङ्क्ष-वचनमनृतं नासीत् । ततो भवतां संनिधौ क्वापि धनं विद्यते तदर्पयत । अन्यथा सर्वेषामपि वधं विधाय चर्म विदार्य प्रत्यङ्गं प्रेक्ष्य धनं नेष्यामः ।