सोऽपि चौर्य-भयात्तस्य शङ्कितः स्व-पुत्रमुवाच-वत्स, पितृव्योऽयं तव स्नानार्थं नद्यां यास्यति । तद्गम्यतामनेन सार्धं स्नानोपकरणमादायेति । अहो साध्विदमुच्यते—
न भक्त्या कस्यचित्कोऽपि प्रियं प्रकुरुते नरः । मुक्त्वा भयं प्रलोभं वा कार्य-कारणमेव वा ॥
Metre: अनुष्टुप्
अत्यादरो भवेद्यत्र कार्य-कारण-वर्जितः । तत्र शङ्का प्रकर्तव्या परिणामेऽसुखावहा ॥
Metre: अनुष्टुप्
अथासौ वणिक्-शिशुः स्नानोपकरणमादाय प्रहृष्ट-मनास्तेनाभ्यागतेन सह प्रस्थितः । तथानुष्ठिते वणिक्स्नात्वा तं शिशुं नदी-गुहायां प्रक्षिप्य तद्-द्वारं बृहच्-छिलयाच्छाद्य सत्वरं गृहमागतः । पृष्टश्च तेन वणिजा-भोऽभ्यागत तत्कथ्यतां कुत्र मे शिशुर्यस्त्वया सह नदीं गतः इति ।
स आह—नदी-तटात्स श्येनेन हृत इति ।
श्रेष्ठ्याह-मिथ्या-वादिन् ! किं क्वचिच्छ्येनो बालं हर्तुं शक्नोति ? तत्समर्पय मे सुतम्,अन्यथा राज-कुले निवेदयिष्यामीति ।
स आह—भोः सत्यवादिन् ! यथा श्येनो बालं न नयति तथा मूषिका अपि लोह-भार-घटितां तुलां न भक्षयन्ति । तदर्पय मे तुलां यदि दारकेण प्रयोजनम् । एवं विवदमानौ द्वावपि राज-कुलं गतौ ।
तत्र श्रेष्ठी तार-स्वरेण प्रोवाच-भोऽब्रह्मण्यमब्रह्मण्यम् । मम शिशुरनेन चौरेणापहृतः ।
अथ धर्माधिकारिणस्तमूचुः-भोः समर्प्यतां श्रेष्ठि-सुतः ।