स आह—किं करोमि ? पश्यतो मे नदी-तटाच्छ्येनेनापहृतः शिशुः ।
तच्छ्रुत्वा ते प्रोचुः-भो न सत्यमभिहितं भवता । किं श्येनः शिशुं हर्तुं समर्थो भवति ?
स आह—भो भोः श्रूयतां मद्-वचः ।
तुलां लोह-सहस्रस्य यत्र खादन्ति मूषिकाः । राजंस्तत्र हरेच्छ्येनो बालकं नात्र संशयः ॥
Metre: अनुष्टुप्
ततः श्रेष्ठी सभ्यानामग्रे सर्वं वृत्तान्तं निवेदयामास । ततस्तैर्विहस्य द्वावपि तौ परस्परं सम्बोध्य तुला-शिशु-प्रदानेन सन्तोषितौ ।
अतोऽहं ब्रवीमि-तुलां लोह-सहस्रस्य इति । तन्मूर्ख ! सञ्जीवक-प्रसादमसहमानेन त्वयैतत्कृतम् । अहो साध्विदमुच्यते—
प्रायेणात्र कुलान्वितं कुकुलजाः श्री-वल्लभं दुर्भगा दातारं कृपणा ऋजूननृजवो वित्ते स्थितं निर्धनाः । वैरूप्योपहृताश्च कान्त-वपुषं धर्माश्रयं पापिनो नाना-शास्त्र-विचक्षणं च पुरुषं निन्दन्ति मूर्खाः सदा ॥
Metre: शार्दूलविक्रीडितम्
मूर्खाणां पण्डिता द्वेष्या निर्धनानां महाधनाः । व्रतिनः पाप-शीलानामसतीनां कुल-स्त्रियः ॥
Metre: अनुष्टुप्