तदा तेषामीदृशं वचनमाकर्ण्य चौर-विप्रेण मनसि चिन्तितम्-यदैषां विप्राणां वधं विधायाङ्गं विलोक्य रत्नानि नेष्यन्ति, तदापि मां वधिष्यन्ति ततोऽहं पूर्वमेवात्मानमरत्नं समर्प्यैतान्मुञ्चामि । उक्तं च—
मृत्योर्बिभेषि किं बाल न स भीतं विमुञ्चति । अद्य वाब्द-शतान्ते वा मृत्युर्वै प्राणिनां ध्रुवः ॥
Metre: अनुष्टुप्
गवार्थे ब्राह्मणार्थे च प्राण-त्यागं करोति यः । सूर्यस्य मण्डलं भित्त्वा स याति परमां गतिम् ॥
Metre: अनुष्टुप्
इति निश्चित्याभिहितं-भोः किराताः ! यद्येवं ततो मां पूर्वं निहत्य विलोकयत । ततस्तैस्तथानुष्ठिते तं धन-रहितमवलोक्यापरे चत्वारोऽपि मुक्ताः ।
अतोऽहं ब्रवीमि-पण्डितोऽपि वरं शत्रुः इति । अथैवं संवदतोः सञ्जीवकः क्षणमेकं पीङ्गलकेन सह युद्धं कृत्वा तस्य खर-नखर-प्रहाराभिहितो गतासुर्वसुन्धरा-पीठे निपपात । अथ तं गतासुमवलोक्य पिङ्गलकस्तद्-गुण-स्मरणार्द्र-हृदयः प्रोवाच-भोः,अयुक्तं मया पापेन कृतं सञ्जीवकं व्यापादयता । यतो विश्वास-घातादन्यन्नास्ति पापतरं कर्म । उक्तं च—
मित्र-द्रोही कृतघ्नश्च यश्च विश्वास-घातकः । ते नरा नरकं यान्ति यावच्चन्द्र-दिवाकरौ ॥
Metre: अनुष्टुप्
भूमि-क्षये राज-विनाश एव भृत्यस्य वा बुद्धिमतो विनाशे । नो युक्तमुक्तं ह्यनयोः समत्वं नष्टापि भूमिः सुलभा न भृत्याः ॥
Metre: इन्द्रवज्रा
तथा मया सभा-मध्ये स सदैव प्रशंसितः । तत्किं कथयिष्यामि तेषामग्रतः । उक्तं च—
उक्तो भवति यः पूर्वं गुणवानिति संसदि । न तस्य दोषो वक्तव्यः प्रतिज्ञा-भङ्ग-भीरुणा ॥
Metre: अनुष्टुप्