पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Enable Parallel


Showing 1031 to 1040 of 1051 verses
तदा तेषामीदृशं वचनमाकर्ण्य चौर-विप्रेण मनसि चिन्तितम्-यदैषां विप्राणां वधं विधायाङ्गं विलोक्य रत्नानि नेष्यन्ति, तदापि मां वधिष्यन्ति ततोऽहं पूर्वमेवात्मानमरत्नं समर्प्यैतान्मुञ्चामि । उक्तं च—

Verse 452
मृत्योर्बिभेषि किं बाल न स भीतं विमुञ्चति । अद्य वाब्द-शतान्ते वा मृत्युर्वै प्राणिनां ध्रुवः ॥
Metre: अनुष्टुप्

तथा च—

Verse 453
गवार्थे ब्राह्मणार्थे च प्राण-त्यागं करोति यः । सूर्यस्य मण्डलं भित्त्वा स याति परमां गतिम् ॥
Metre: अनुष्टुप्

इति निश्चित्याभिहितं-भोः किराताः ! यद्येवं ततो मां पूर्वं निहत्य विलोकयत । ततस्तैस्तथानुष्ठिते तं धन-रहितमवलोक्यापरे चत्वारोऽपि मुक्ताः ।

अतोऽहं ब्रवीमि-पण्डितोऽपि वरं शत्रुः इति । अथैवं संवदतोः सञ्जीवकः क्षणमेकं पीङ्गलकेन सह युद्धं कृत्वा तस्य खर-नखर-प्रहाराभिहितो गतासुर्वसुन्धरा-पीठे निपपात । अथ तं गतासुमवलोक्य पिङ्गलकस्तद्-गुण-स्मरणार्द्र-हृदयः प्रोवाच-भोः,अयुक्तं मया पापेन कृतं सञ्जीवकं व्यापादयता । यतो विश्वास-घातादन्यन्नास्ति पापतरं कर्म । उक्तं च—

Verse 454
मित्र-द्रोही कृतघ्नश्च यश्च विश्वास-घातकः । ते नरा नरकं यान्ति यावच्चन्द्र-दिवाकरौ ॥
Metre: अनुष्टुप्

Verse 455
भूमि-क्षये राज-विनाश एव भृत्यस्य वा बुद्धिमतो विनाशे । नो युक्तमुक्तं ह्यनयोः समत्वं नष्टापि भूमिः सुलभा न भृत्याः ॥
Metre: इन्द्रवज्रा

तथा मया सभा-मध्ये स सदैव प्रशंसितः । तत्किं कथयिष्यामि तेषामग्रतः । उक्तं च—

Verse 456
उक्तो भवति यः पूर्वं गुणवानिति संसदि । न तस्य दोषो वक्तव्यः प्रतिज्ञा-भङ्ग-भीरुणा ॥
Metre: अनुष्टुप्