मेघदूतम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

मेघदूतम्

Disable Parallel


Showing 81 to 90 of 111 verses
Verse 81
नूनं तस्याः प्रबलरुदितोच्छूननेत्रं बहूनां निःश्वासानामशिशिरतया भिन्नवर्णाधरौष्ठम् । हस्तन्यस्तं मुखमसकलव्यक्ति लम्बालकत्वादिन्दोर्दैन्यं त्वदुपसरणक्लिष्टकान्तेर्बिभर्ति ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: तस्या वक्तुं निश्चितं त्वदुपसरणक्लिष्टकान्तेर्भवत्संपर्ककदर्थितशोभस्य शशिनो दैन्यं बिभर्ति विच्छायतां धत्ते । यतोऽसकलव्यक्ति न तथा प्रकटम् । कुतः । लम्बालकत्वात् । न हि विरहिणी केशान्संमार्जयति । कीदृशं तत् । प्रबलेनाविच्छिन्नेन रुदितेनोच्छूने नेत्रे यस्य । तथा श्वासपरंपराया उष्णत्वाद्भिन्नवर्णो नष्टकान्तिरधरो यस्य । हस्तन्यस्तं करविधृतम् ॥

Verse 82
आलोके ते निपतति पुरा सा बलिव्याकुला वा मत्सादृश्यं विरहतनु वा भावगम्यं लिखन्ती । पृच्छन्ती वा मधुरवचनां शारिकां पञ्जरस्थां कच्चिद्भर्तुः स्मरसि निभृते त्वं हि तस्य प्रियेति ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: मत्प्रियैवंविधा तवालोके दर्शनपथे पुरा निपतत्यचिराद्यास्यते । एवंविधान्व्यापारान्कुर्वतीं तां द्रक्ष्यसीत्यर्थः । कीदृशी । बलिव्याकुला देवपूजातत्परा । मम सादृश्यमनुकारं विरहवशात्तनु दुर्बलं भावगम्यं चित्तस्थितं लिखन्ती वा । मञ्जुवादिनी सारिकां पञ्जरस्थां पृच्छन्ती वा । किमित्याह । हे निभृते विनीते कच्चिद्भर्तुः स्मरसि मत्पतिं ध्यायसि । यस्मात्त्वं तस्यातीव प्रिया । पुरा निपततीति यावत्पुरानिपातयोर्लट् ॥

Verse 83
उत्सङ्गे वा मलिनवसने सोम्य निक्षिप्य वीणां मद्गोत्राङ्कं विरचितपदं गेयमुद्गातुकामा । तन्त्रीरार्द्रा नयनसलिलैः सारयित्वा कथं चिद्भूयो भूयः स्वयमपि कृतां मूर्च्छनां विस्मरन्ती ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: धूसराम्बरेऽङ्के वीणां निधाय गेयमुद्गातुकामा वा । सालोके ते निपततीति सम्बन्धः । कीदृशं गेयम् । मम गोत्रं नामाङ्कचिह्नं यस्य । विरचितानि पदानि शब्दा यस्य । पदस्थो हि स्वरसंघातो गेयम् । मदीयनामान्वितमित्यर्थः । अस्रुभिर्नेत्रजलैरार्द्राः क्रूतास्तन्त्रीः क्लेशेन सारयित्वा योजयित्वा स्वयमपि दत्तां मूर्छनां मारणां विस्मरन्ती । चेतमोऽस्वास्थ्यात् ॥

Verse 84
शेषान्मासान्गमनदिवसप्रस्तुतस्यावधेर्वा विन्यस्यन्ती भुवि गणनया देहलीदत्तपुष्पैः । संयोगं वा हृदयनिहितारम्भमास्वादयन्ती प्रायेणैते रमणविरहेष्वङ्गनानां विनोदाः ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: गमनदिवसात्प्रवृत्तो योऽवधिर्वर्षाख्यस्तस्य शेषान्मासानवनौ भुवि विन्यस्यन्ती स्थापयन्ती । कैः । देहल्यां द्वारविशेषे द्वारपूजार्थं दत्तैः पुष्पैर्या गणना तया । रेखापदेषु पुष्पाणि दत्त्वेत्यर्थः । हृदयनिहितारम्भं मनोरथरचितं मत्संगमं वास्वादयन्त्यनुभवन्ती । कथमवगच्छस्येतादृशान्व्यापारान्कुर्वतीत्याह । यम्मादिष्टवियोगे विरहिणीनां प्रायेणैवंविधा एव विनोदाः केलयो भवन्ति ॥

Verse 85
आद्ये बद्धा विरहदिवसे या शिखा दाम हित्वा शापस्यान्ते विगलितशुचा या मयोन्मोचनीया । स्पर्शक्लिष्टामयमितनखेनासकृत्सारयन्तीं गण्डाभोगात्कठिनविषमादेकवेणीं करेण ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: तां सखीमुन्निद्रा सतीं त्वमत: कारणान्निशीथेऽर्धरात्रे मत्संदेशैः सुखयितुं पश्येर्न तु दिवसे । कुत इत्याह । सव्यापारत्वादहनि तां विरहो न तथा दुःखयेद्यथा रात्रौ शङ्के संभावये । यतो निर्विनोदां चित्रव्यापारादिवर्जिताम् । अत एव गुरुतरशुचमतिदुःखिताम् । कोदृशीं ताम् । एवंविधामेकां वेणीं कठोरपरुषात्कपोलफलकादघटितकरजेन पाणिना मारयन्तीमालोकार्थमपास्यन्तीम् । कीदृशीं वेणीम् । याद्ये प्रथमे विरहदिवसे वियोगदिने चूडाशेखरमपास्य तया वेष्टिता । या च नष्टशोकेन मया मोचमीया । एवं ह्येष विरहाचारः । स्नेहाभावाच्च स्पर्शे क्लिष्टां परुषाम् । त्वं कीदृशः । अवनी भुवि न तु खट्टायां यच्छयनं तल्पे तस्यासन्ने निकटे वातायने गवाक्षे तिष्ठति यः स तथोक्तः ॥

Verse 86
सव्यापारामहनि न तथा खेदयेद्विप्रयोगः शङ्के रात्रौ गुरुतरशुचं निर्विनोदां सखीं ते । मत्संदेशैः सुखयितुमतः पश्य साध्वीं निशीथे तामुन्निद्रामवनिशयनासन्नवातायनस्थः ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: तां सखीमुन्निद्रा सतीं त्वमत: कारणान्निशीथेऽर्धरात्रे मत्संदेशैः सुखयितुं पश्येर्न तु दिवसे । कुत इत्याह । सव्यापारत्वादहनि तां विरहो न तथा दुःखयेद्यथा रात्रौ शङ्के संभावये । यतो निर्विनोदां चित्रव्यापारादिवर्जिताम् । अत एव गुरुतरशुचमतिदुःखिताम् । कोदृशीं ताम् । एवंविधामेकां वेणीं कठोरपरुषात्कपोलफलकादघटितकरजेन पाणिना मारयन्तीमालोकार्थमपास्यन्तीम् । कीदृशीं वेणीम् । याद्ये प्रथमे विरहदिवसे वियोगदिने चूडाशेखरमपास्य तया वेष्टिता । या च नष्टशोकेन मया मोचमीया । एवं ह्येष विरहाचारः । स्नेहाभावाच्च स्पर्शे क्लिष्टां परुषाम् । त्वं कीदृशः । अवनी भुवि न तु खट्टायां यच्छयनं तल्पे तस्यासन्ने निकटे वातायने गवाक्षे तिष्ठति यः स तथोक्तः ॥

Verse 87
आधिक्षामां विरहशयने संनिकीर्णैकपार्श्वां प्राचीमूले तनुमिव कलामात्रशेषां हिमांशोः । मत्संयोगः कथमुपनमेत्स्वप्नजोऽपीति निद्रामाकाङ्क्षन्तीं नयनसलिलोत्पीडरुद्धावकाशाम् ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: अन्यच्च कोदृशीं ताम् । आधिक्षामां चित्तपीडाकृशाम् । अत एव यादृशे तादृशे विरहशयने संनिकीर्णं क्षिप्तमेकं पार्श्वं यया । अतश्चामावस्यायां प्राचीमूले पूर्वदिङ्मुखे कलामात्रशेषां हिमांशोश्चन्द्रमसे मूर्तिमिवेत्युपमा । तथा निद्रामभिलषन्तीम् । किमर्थम् । मया सह कथं नाम स्वप्ने समागमो घटेतेति । नयनसलिलोत्पीडेन नेत्राम्बुपूरेण रुद्धावकाशां निवृत्तप्रसराम ॥

Verse 88
निःश्वासेनाधरकिसलयक्लेशिना विक्षिपन्तीं शुद्धस्नानात्परुषमलकं नूनमागण्डलम्बम् । नीता रात्रिः क्षण इव मया सार्धमिच्छारतैर्या तामेवोष्णैर्विरहशयनेष्वस्रुभिर्यापयन्तीम् ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: दीर्घोष्णत्वादोष्ठपल्लवदाहिनोच्छ्वासेनालकं नूनमुत्क्षिपन्तीमपास्यन्तीम् । कीदृशम् । शुद्धस्नानात्पानीयमात्राभिषेकेण परुषं रूक्षम् । यदि हि सा मङ्गलार्थं कदाचित्स्नाति तत्सुरभितैलामलकादिशून्येन तोयमात्रेण । आगण्डं लम्बत इत्यागण्डलम्बं कपोलस्रस्तम् । तथा मया सहेच्छारतैर्या निशा क्षणवदतिवाहिता तामेवोष्णैर्बाष्पैर्विरहशय्यायां रोदनेन मासमिव यापयन्तीं नयन्तीम् ॥

Verse 89
पादानिन्दोरमृतशिशिराञ्जालमार्गप्रविष्टान्पूर्वप्रीत्या गतमभिमुखं संनिवृत्तं तथैव । चक्षुः खेदात्सजलगुरुभिः पक्ष्मभिश्छादयन्तीं साभ्रेऽह्नीव स्थलकमलिनीं न प्रबुद्धां न सुप्ताम् ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: सबाष्पत्वाद्गुरुभिर्दुःसहेः पक्ष्मभिर्लोमभिः खेदाच्चक्षुराच्छादयन्तीं स्थगयन्तीम् । कीदृशम् । पीयूषशीतलान्वातायनप्रविष्टामिन्दोः पादान्किरणान्पूर्वप्रीत्या संमुखं गतं प्रसृतम् । ततो मद्विरहेण खेदकारित्वात्तथैव संनिवृत्तम् । यद्वदेव रभसाद्गतं तद्वदेव प्रत्यागतमित्यर्थः । अतश्चाक्ष्णोः स्थगनान्न प्रबुद्धां न सुप्ताम् । नेत्रनिमीलनात्प्रबोधाभावो निद्राभावश्च स्वापशून्यतया । अतश्च साभ्रेऽहनि स्थलकमलिनीमिवेत्युपमा । सा हि साभ्रत्वान्न प्रबुद्धा दिनवशाच्च न सुप्ता । पूर्वेवात्र वाक्यत्रये क्रिया ॥

Verse 90
जाने सख्यास्तव मयि मनः संभृतस्नेहमस्मादित्थंभूतां प्रथमविरहे तामहं तर्कयामि । वाचालं मां न खलु सुभगंमन्यभावः करोति प्रत्यक्षं ते निखिलमचिराद्भ्रातरुक्तं मया यत् ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: तस्या भवद्वयस्याया यतो मयि मनः संभृतस्नेहमतिप्रीतिमदतः कारणादित्थं भूतामेवंविधां दशामवाप्तां तामहमाद्यवियोगे तर्कयाम्युत्प्रेक्षे । न च स्नेह एव त्वयि तस्या नास्तीति वक्तुं युज्यत इत्याह । सुभगमिष्टमात्मानं मन्यते सुभगंमन्यः । तद्भावो मां नैव वाचालं यत्किंचनभाषिणं कुरुते । तस्माद्यत्तव मयोक्तमेतदशेषं तवाचिरात्प्रत्यक्षम् । अवश्यं त्वमेवंविधां तो द्विदिनैर्द्रक्ष्यसीत्यर्थः ॥