मेघदूतम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

मेघदूतम्

Disable Parallel


Showing 91 to 100 of 111 verses
Verse 91
सा संन्यस्ताभरणमबला पेलवं धारयन्ती शय्योत्सङ्गे निहितमसकृद्दुःखदुःखेन गात्रम् । त्वामप्यस्रं नवजलमयं मोचयिष्यत्यवश्यं प्रायः सर्वो भवति करुणावृत्तिरार्द्रान्तरात्मा ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: साबला कृशाङ्गीदृशं देहं वहन्ती निश्चेतनमपि त्वां नतजलमयमस्रमवश्यं त्याजयिष्यति । कीदृशं गात्रम् । पेलवं कृशं सुकुमारम् । अत एव संन्यस्ताभरणं त्यक्तमण्डनम । तथा तल्पपृष्ठे निक्षिप्तमप्यतिक्लेशेन बिभ्रती । यद्येवंविधा सा किमित्यहं रोदिमीत्याह । यस्माद्य आर्द्रान्तरात्मा सरसचित्तः स सर्वः प्रायेण करुणावृत्तिः कृपाशीलो भवति । त्वं च सजलत्वादार्द्रान्तरः । करुणा कृपैव वृत्तिर्व्यापारो यस्य स करुणावृत्तिः । कृपार्थवृत्तेः करुणाशब्दस्य भाषितपुंस्कत्वाभावान्न पुंवद्भावः । दुःखदुःखेनेत्याधिक्ये निर्वचनम् । दुहेरिव मुचेरपि विकर्मकत्वात्त्वामस्रं मोचयिष्यतीति ॥

Verse 92
रुद्धापाङ्गप्रसरमलकैरञ्जनस्नेहशून्यं प्रत्यादेशादपि च मधुनो विस्मृतभ्रूविलासम् । त्वय्यासन्ने नयनमुपरिस्पन्दि शङ्के मृगाक्ष्या मीनक्षोभाकुलकुवलयश्रीतुलामेष्यतीति ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: भवति निकटस्थे सति तस्या हरिणनयनाया नेत्रमपरिस्पन्दित्वादनिमेषोत्पलनचटुलोत्पलशोभामाम्यं प्राप्स्यतीत्याशङ्के संभावयामीति शुभसूचनमत्र । स्त्रीणां हि वामातिक्षिस्फुरणमानन्दमासन्नमाह । कीदृशं नयनम् । लम्बैरलकैरुद्धापाङ्गप्रसरं निवृत्तकटाक्षक्षेपम् । शोकाच्चाञ्जनस्नेहेन रहितम् । तथा मद्यम्य वर्जनाद्विस्खलितभ्रूविनामम ॥

Verse 93
वामो वास्याः कररुहपदैर्मुच्यमानो मदीयैर्मुक्ताजालं चिरपरिचितं त्याजितो दैवगत्या । संभोगान्ते मम समुचितो हस्तसंवाहनानां यास्यत्यूरुः सरसकदलीस्तम्भगौरश्चलत्वम् ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: त्वय्यामन्ने वामो वोरुरस्याश्चलत्वं यास्यति स्फुरिष्यति । वाशब्दो नयनस्पन्दापेक्षया विकल्पे । कीदृशोऽसौ । मामकैर्नखक्षतैर्वर्ज्यमानः । नित्याभ्यस्तं च मौक्तिककलापं विधिवैधुर्यात्त्याजित उपेक्षितः । शैत्यार्थं हि तत्र तस्य करणमभूत् । तथा सुरतसमाप्तौ मम करोपमर्दनयोग्यः । अभिनवकदलीकाण्डवच्च गौरः श्वेतः ॥

Verse 94
तस्मिन्काले जलद दयिता लब्धनिद्रा यदि स्यादन्वास्यैनां स्तनितविमुखो याममात्रं सहस्व । मा भूदस्याः प्रणयिनि मयि स्वप्नलब्धे कथं चित्सद्यः कण्ठच्युतभुजलताग्रन्थि गाढोपगूढम् ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: हे जलद तस्मिन्कालेऽर्धरात्रसमये प्रिया चेत्सुप्ता भवेत्तदेनामन्वास्य सेवित्वा त्यक्तगर्जितस्त्वं क्षणमात्रं सहस्व प्रतीक्षेथाः । मा स्म तां बोधयः । किमर्थमित्याह । मयि प्रेयसि कथंचिद्दैवात्स्वप्नासादिते सति तस्या गाढोपगूढं दृढालिङ्गनं सद्यस्तत्क्षणं कण्ठच्युतभुजलताग्रन्थि गलभ्रष्टबाहुवल्लीपाशं मा भूत् । आश्लेषविच्छेदो मा स्म भवदित्यर्थः । नूनं मा मामालिङ्गितमात्मना स्वप्ने द्रक्ष्यति । उपगूढशब्दो भावे । अन्वासनं सेवनम् । यथा । अन्वासितमरुन्धत्या स्वाहयेव हविर्भुजमिति । स्थाणुं तपस्यन्तमधित्यकायाम् । अन्वास्त इति च ॥

Verse 95
तामुत्थाप्य स्वजलकणिकाशीतलेनानिलेन प्रत्याश्वस्तां सममभिनवैर्जालकैर्मालतीनाम् । विद्युद्गर्भे निहितनयनां त्वत्सनाथे गवाक्षे वक्तुं धीरस्तनितवचनैर्मानिनीं प्रक्रमेथाः ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: ततः सुप्तां तां मनस्विनीं निजोदकबिन्दुभिस्तुषारेण समीरणेनोत्थाप्य गम्भीरगर्जितैर्नैव वचसा वक्तुं प्रकमेथाः प्रारभेथाः । कीदृशीम् । शीतवातसंस्पर्शात्समाश्वस्तां मालतीजालकैः सह । सा हि प्रभाते विकसति । तथा भवदधिष्ठितत्वाद्विद्युद्गर्भे तडित्वति वातायने दिदृक्षया क्षिप्तचक्षुषम् ॥

Verse 96
भर्तुर्मित्रं प्रियमविधवे विद्धि मामम्बुवाहं तत्संदेशान्मनसि निहितादागतं त्वत्समीपम् । यो वृन्दानि त्वरयति पथि श्राम्यतां प्रोषितानां मन्द्रस्निग्धैर्ध्वनिभिरबलावेणिमोक्षोत्सुकानि ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: हे अविधवे पतिवति भावत्कस्य पत्युर्मित्रं प्रियमम्बुवाहं जीमूतं मां त्वं विद्धि जानीहि । तत्संदेशान्मनसि निहितात्तदीयं संदेशं चेतसि गृहीत्वा त्वन्निकटं प्राप्तम् । यश्चाम्बुवाहो मार्गे श्राम्यतां खेदं भजतां प्रोषितानां प्रवासिनां कदम्बकानि मन्द्रस्निग्धैर्मधुरारूक्षैर्गर्जितैस्त्वरयति प्रेरयति गृहाय । यतोऽबलानां कान्तानां वेणिमोक्षणे कबर्युन्मोचन उत्सुकान्युत्कानि । मेघालोके हि विरहो दुःसहः । यस्त्वरयतीत्यम्बुवाहापेक्षया पुंस्त्वं प्रथमपुरुषनिर्देशश्च । मित्रास्मदपेक्षया तु दुर्घटमेतत्स्यात् ॥

Verse 97
इत्याख्याते पवनतनयं मैथिलीवोन्मुखी सा त्वामुत्कण्ठोच्छ्वसितहृदया वीक्ष्य संभाव्य चैव । श्रोष्यत्यस्मात्परमवहिता सोम्य सीमन्तिनीनां कान्तोदन्तः सुहृदुपनतः संगमात्किं चिदूनः ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: इत्थं त्वयोक्ते सति सा त्वामुद्वक्त्रा दृशा दृष्ट्वा धिया चोपपद्यते तद्दूतस्वमस्येति संभाव्य विचार्यातः परमवहितैकाग्राकर्णयिष्यति । यस्मात्पुरंध्रीणां मित्रेणानीतः कान्तोदन्तो वल्लभवृत्तान्तः संगमात्किंचिदूनः । प्रियसमागमे समाश्वासोत्पादात्प्रियसंगमनिभ इत्यर्थः । कमिव का वीक्ष्येत्याह । पवनतनयं हनूमन्तं मैथिली सीता यथा पूर्वं दृष्टवती दूतं च संभावितवती । उत्कठ्योच्छ्वसितं मुक्तोच्छ्वासं हृदयं यस्याः सा तथोक्ता ॥

Verse 98
तामायुष्मान्मम च वचनादात्मना चोपकर्तुं ब्रूयादेवं तव सहचरो रामगिर्याश्रमस्थः । अव्यापन्नः कुशलमबले पृच्छति त्वां वियुक्तः पूर्वाशास्यं सुलभविपदां प्राणिनामेतदेव ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: आयुष्मान्भवान्मदीयेन वचमा स्वयं चोपकर्तुं तामित्थं ब्रूयाद्वदेत् । यथा तव सहचरः पतिश्चित्रकूटासीनोऽव्यापन्नो जीवस्त्वां कुशलं पृच्छतीति । किमित्युभयगतकुशलकथनमेवादावित्याह । यस्मात्सुप्रापवि पत्तीनां शरीरिणामेतदेव पूर्वाशास्यं प्रथमाकाङ्क्षणीयं यत्स्वास्थ्यं नाम । आयुष्मानिति वचने कर्तृपदं न त्वामन्त्रणम् । ब्रूयादिति प्रथमपुरुषप्रयोगात् । आशास्यशब्देऽनुपसर्गाधिकारादेतिस्तुशासव्रिति क्यवभावः ॥

Verse 99
अङ्गेनाङ्गं तनु च तनुना गाढतप्तेन तप्तं सास्रेणास्रद्रवमविरतोत्कण्ठमुत्कण्ठितेन । उष्णोच्छ्वासं समधिकतरोच्छ्वासिना दूरवर्ती संकल्पैस्ते विशति विधिना वैरिणा रुद्धमार्गः ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: तव प्रेयान्दरवर्ती संकल्पैरुत्कण्ठावशादङ्गेनाङ्गं विशति वपुषा त्वद्देहं प्रवेष्टुमिच्छति । त्वयैक्यं यियासतीत्यर्थः । भिन्नयोश्चैक्यं सारूप्याद्भवतीति तयोरङ्गयोस्तनु च तनुनेति पृथग्विशेषणैः सादृश्यकथनेन ममानुरागतामाह । अयं द्रवतीत्यनुद्रम् । पचादित्वादच् । कम्पादात्मना नायातीत्याह । विधुरेण विधिना रुद्धवर्त्मा । वियोगस्य वर्षभोग्यत्वात् । तनु च तनुनेति चार्थाभावात्प्रतनु तनुतेति पठनीयम् ॥

Verse 100
शब्दाख्येयं यदपि किल ते यः सखीनां पुरस्तात्कर्णे लोलः कथयितुमभूदाननस्पर्शलोभात् । सोऽतिक्रान्तः श्रवणविषयं लोचनानामगम्यस्त्वामुत्कण्ठाविरचितपदं मन्मुखेनेदमाह ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: स तव प्रियो मन्मुखेनेदं वक्ष्यमाणं त्वामाह ब्रवीति । स कः । यत्किल शब्दाख्येयं प्रकटवाच्यं तदपि सखीसंनिधाने व्याजं विधाय यस्तव कर्णे वक्तुं लोलः साकाङ्क्ष आसीत् । कुतो हेतोः । आननस्पर्शलोभात् । कर्णे कथनं हि तस्य त्वन्मुखस्पर्शसुखानुभवाय । कीदृशः सः । श्रवणविषयमतिकान्तोऽप्राप्तः । दूरस्थत्वात् । अत एव लोचनानामगम्यो नेत्रैर्द्रष्टुमशक्यः । उत्कण्ठया विरचितानि पदानि शब्दा यत्रेति कथनविशेषणम् ॥