मेघदूतम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

मेघदूतम्

Disable Parallel


Showing 101 to 110 of 111 verses
Verse 101
श्यामास्वङ्गं चकितहरिणप्रेक्षिते दृष्टिपातं गण्डच्छायां शशिनि शिखिनां वर्हभारेषु केशान् । उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासान्हन्तैकस्थं क्व चिदपि न ते भीरु सादृश्यमस्ति ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: हे भीरु कातरे तव सारूप्यमेकस्थं कष्टं क्वचिदपि न विद्यते । यदालोक्यात्मानं समाश्वासयेयम् । तथा हि श्यामालतामु तवाङ्गमुत्प्रेक्षे । तद्वत्तनुत्वात् । चकित हरिणप्रेक्षणे च दृष्टिपातम् । त्रस्तसारङ्गवच्चटुलावलोकनात् । एवमुत्तरत्र यथायथं योज्यम् । कपोलकान्तिं मृगाङ्क उत्पश्यामि । मयूराणां कलापाटोपेषु कचभरम् । सूक्ष्मसरित्कल्लोलेषु भ्रूविलासान् । भीर्वित्यन्वर्थं नाम नारीणाम् । संज्ञापूर्वको विधिर नित्य इति ह्रस्वगुणाभावः ॥

Verse 102
त्वामालिख्य प्रणयकुपितां धातुरागैः शिलायामात्मानं ते चरणपतितं यावदिच्छामि कर्तुम् । अस्रैस्तावन्मुहुरुपचितैर्दृष्टिरालिप्यते मे क्रूरस्तस्मिन्नपि न सहते संगमं नौ कृतान्तः ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: भवतीं प्रणयकुपितां प्रीत्या कपितां धातुरागैः सिन्दूरादिरागैर्दृषत्स्वालिख्य प्रार्थनयात्मानं तव पादगतं कर्तुं यावदिच्छामि तावत्त्वदाकारस्य स्मरणाद्बाष्परसकृदुपचितैवृद्धैश्चक्षुषी ममाच्छाद्येते । अतश्च तस्मिन्नपि त्वदाकारे तत्रापि चित्रे क्रूरो विषमो विधिर्नावावयोः समागमं न क्षमते ॥

Verse 103
मामाकाशप्रणिहितभुजं निर्दयाश्लेषहेतोर्लब्धायास्ते कथमपि सति स्वप्नसंदर्शनेषु । पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां मुक्तास्थूलास्तरुकिसलयेष्वस्रुलेशाः पतन्ति ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: हे सति गुणवति तव स्वप्ने दैववशात्प्राप्ताया गाढालिङ्गनायाकाशे शून्य एव प्रसारितभुजं मां वीक्षमाणानां वनदेवतानां द्रुमपल्लवेषु मौक्तिकपृथवो वाष्पकणा असकृत् खलु न पतन्ति । अपि तु भ्रश्यन्त्येव । तादृशीं मे दशामालोक्य ता अपि कृपया रुदन्तितरामित्यर्थः ॥

Verse 104
भित्त्वा सद्यः किसलयपुटान्देवदारुद्रुमाणां ये तत्क्षीरस्रुतिसुरभयो दक्षिणेन प्रवृत्ताः । आलिङ्ग्यन्ते गुणवति मया ते तुषाराद्रिवाताः पूर्वस्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: हे गुणवति शीलान्विते सरलतरूणां तत्क्षणं पल्लवकवाटानुपमृद्य तद्द्रुमसम्बन्धिक्षीरस्रुतिसुगन्धयो ये हिमालयानिला दक्षिणेन प्रवृत्ता अस्यां दिशि वातुं प्रस्तुतास्ते मयाक्षिप्यन्ते । किमर्थम् । यदि किलैभिर्मारुतैः सहवासात्कदाचित्त्वदीयं शरीरं स्पृष्टं भवेत् । अतश्च । वाहि वात यतः कान्ता तां स्पृष्ट्वा मामपि स्पृशेः । बह्वेतत्कामयानस्य शक्यमेतेन जीवितुम् । दक्षिणेनेत्येनबन्तः ॥

Verse 105
संक्षिप्येरन्क्षण इव कथं दीर्घयामास्त्रियामाः सर्वावस्थास्वहरपि कथं मन्दमन्दातपं स्यात् । इत्थं चेतश्चटुलनयने दुर्लभप्रार्थनं मे गाढोष्माभिः कृतमशरणं त्वद्वियोगव्यथाभिः ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: हे चञ्चललोचने गाढोष्माभिस्तीव्रसन्तापाभिस्त्वद्विरहचिन्ताभिर्मम मन इत्थं दुर्लभप्रार्थनं कृतम् । यद्यद्दुष्प्रापं तत्तदभिन्नलषामीत्यर्थः । तथा हि दीर्घप्रहरास्त्रियामा निशा निमेष इव कथं नाम संक्षिप्येरन्गच्छेयुः । तथा ग्रीष्ममध्याह्नादिष्वपि सकलासु दशासु दिनमतिमृदुरविप्रभं कथं स्यादिति । एतच्च दुर्लभम् । न हि निखिला क्षणदा क्षणवत्क्षीयते । न च दिनं सर्वदा मन्दातपं भवति । गाढोष्माभिरिति डावुभाभ्यामन्यतरम्याम । संक्षिप्येरन्निति कर्मकर्तरि ॥

Verse 106
नन्वात्मानं बहु विगणयन्नात्मना नावलम्बे तत्कल्याणि त्वमपि सुतरां मा गमः कातरत्वम् । कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो वा नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: आत्मावस्थां प्रतिपाद्य संप्रति कर्तव्यतामाह । हे कन्याणि भद्रे तवापि नन्वात्मानं बहुविधं विगणयञ्जानन्स्वयमेव नावलम्बे न । अपि त्ववलम्ब एव । पामीत्यर्थः । तत्त्वमपि प्रिये कातरत्वमधैर्यं सुतरामत्यर्थं मा गमो मा यासीः । यस्मात्कस्य संसारिणो नित्यं सुखमुपनतं घटितमेकान्ततो नियमेन दुःखं वा । यत एताः सुखासुखरूपा दशा अवस्थाश्चक्रनेमिवत्कदाचिन्नीचैर्गच्छन्त्यधो यान्ति कदाचिच्चोपरि पृष्ठे । रथाङ्गधारा हि भ्रमन्ती क्रमेणाध उपरि च याति । तदुक्तम् । सुखं च दुःखं च भवाभवौ च लाभालाभौ मरणं जीवितं च । पर्यायशः सर्वमिह स्पृशन्ति तस्माद्धीरो न प्रहृष्येत शोचेत् ॥ नन्वभिमुखीकरणे । मा गम इति लृदित्वादङ् ॥

Verse 107
शापान्तो मे भुजगशयनादुत्थिते शार्ङ्गपाणौ मासानन्यान्गमय चतुरो लोचने मीलयित्वा । पश्चादावां विरहगुणितं तं तमात्माभिलाषं निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: कार्त्तिकशुक्लद्वादश्यां भुजगशयनाच्छेषतल्पादुत्थिते शार्ङ्गपाणौ हरौ मम शापान्तो भविष्यति । तदैव वर्षस्य परिपूर्णत्वात् । अतश्चाद्यारभ्य मासचतुष्टयं लोचने मीलयित्वा यथाकथंचिद्गमयातिवाहय । ततः पश्चात्संयोगे मति चिरकालगुणितं तीक्ष्णं तं तं नानाविधमात्मनो अभिलाषं कामं परिपक्वशरदज्योत्स्नासु निशास्वावां निर्वेक्ष्याव उपभुञ्जावहे । लोचननिमीलनेनात्र यथातथात्वं लक्ष्यते ॥

Verse 108
भूयश्चाह त्वमपि शयने कण्ठलग्ना पुरा मे निद्रां गत्वा किमपि रुदती सस्वनं विप्रबुद्धा । सान्तर्हासं कथितमसकृत्पृच्छतश्च त्वया मे दृष्टः स्वप्ने कितव रमयन्कामपि त्वं मयेति ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: स त्वप्रिय एतदुक्त्वा पुनरपि स्वामिदमाह । यथा पूर्वं भवती तल्पे मामालिङ्ग्य सुप्ता केनापि निमित्तेन सशब्दं रुदती विप्रबुद्धा विनिद्रा जाता । ततो रोदनहेतुमसकृत्पृच्छतो मम त्वयोक्तम् । हे कितव धूर्त कामपि वनितां रमयन्भवान्स्वप्ने मयावलोकितः । अत ईर्ष्याकोपेनाहमरुदमिति ॥

Verse 109
एतस्मान्मां कुशलिनमभिज्ञानदानाद्विदित्वा मा कौलीनादसितनयने मय्यविश्वासिनी भूः । स्नेहानाहुः किमपि विरहह्रासिनस्ते ह्यभोगादिष्टे वस्तुन्युपचितरसाः प्रेमराशीभवन्ति ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: हे कुवलयाक्ष्येतस्मादभिज्ञानदानान्मां स्वस्थमवेत्य कौलीनाल्लोकापवादमात्रान्मयि त्वमविश्वासिनी निष्प्रत्यया मा भूः । तदेव कौलीनमाह । किमपि कुतोऽपि हेतोः स्नेहान्विरहह्रासिनो वियोगे तनूभवतो जना प्राहुः । यथा । प्रीतिः प्रवासाश्रयादिति । एतच्चायुक्तम् । यस्मात्ते स्नेहा अभोगाद्धेतोरिष्टे वस्तुनीप्सितेऽर्थ उपचितरसाः सन्तः प्रेम्णो राशीभवन्ति प्रीतिमयाः संपद्यन्ते । हृदयवल्लभविषये वियोगवशात्सहस्रगुणः स्नेहः संपद्यत इत्यर्थः । त्वयि च मम या प्रीतिस्तां त्वमेव जानासि । कौलीनं लोकापवादः ॥

Verse 110
कच्चित्सोम्य व्यवसितमिदं बन्धुकृत्यं त्वया मे प्रत्याख्यातुं न खलु भवतो धीरतां तर्कयामि । निःशब्दोऽपि प्रदिशसि जलं याचितश्चातकेभ्यः प्रत्युक्तं हि प्रणयिषु सतामीप्सितार्थक्रियैव ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: हे सोम्य प्रियदर्शनैतन्मित्रकार्य कच्चिद्भवता व्यवसितमंगीकृतं मम । अवश्यमत्र त्वया व्यवसायवता भाव्यम् । प्रत्याख्यातुमत्र तव धैर्यं न लक्षयामि । तथा हि त्वमर्थितः सन्नब्रुवन्नपि चातकेभ्यस्तोयं वितरसि । यस्मान्महतामर्थिष्वभिमानार्थसंपादनमेव प्रतीपवचनम् । महान्तो हि कर्मणा ब्रुवन्ति न वचमा ॥

Showing 101 to 110 of 111 verses