श्यामास्वङ्गं चकितहरिणप्रेक्षिते दृष्टिपातं गण्डच्छायां शशिनि शिखिनां वर्हभारेषु केशान् । उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासान्हन्तैकस्थं क्व चिदपि न ते भीरु सादृश्यमस्ति ॥
Metre: मन्दाक्रान्ता
त्वामालिख्य प्रणयकुपितां धातुरागैः शिलायामात्मानं ते चरणपतितं यावदिच्छामि कर्तुम् । अस्रैस्तावन्मुहुरुपचितैर्दृष्टिरालिप्यते मे क्रूरस्तस्मिन्नपि न सहते संगमं नौ कृतान्तः ॥
Metre: मन्दाक्रान्ता
मामाकाशप्रणिहितभुजं निर्दयाश्लेषहेतोर्लब्धायास्ते कथमपि सति स्वप्नसंदर्शनेषु । पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां मुक्तास्थूलास्तरुकिसलयेष्वस्रुलेशाः पतन्ति ॥
Metre: मन्दाक्रान्ता
भित्त्वा सद्यः किसलयपुटान्देवदारुद्रुमाणां ये तत्क्षीरस्रुतिसुरभयो दक्षिणेन प्रवृत्ताः । आलिङ्ग्यन्ते गुणवति मया ते तुषाराद्रिवाताः पूर्वस्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति ॥
Metre: मन्दाक्रान्ता
संक्षिप्येरन्क्षण इव कथं दीर्घयामास्त्रियामाः सर्वावस्थास्वहरपि कथं मन्दमन्दातपं स्यात् । इत्थं चेतश्चटुलनयने दुर्लभप्रार्थनं मे गाढोष्माभिः कृतमशरणं त्वद्वियोगव्यथाभिः ॥
Metre: मन्दाक्रान्ता
नन्वात्मानं बहु विगणयन्नात्मना नावलम्बे तत्कल्याणि त्वमपि सुतरां मा गमः कातरत्वम् । कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो वा नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ॥
Metre: मन्दाक्रान्ता
शापान्तो मे भुजगशयनादुत्थिते शार्ङ्गपाणौ मासानन्यान्गमय चतुरो लोचने मीलयित्वा । पश्चादावां विरहगुणितं तं तमात्माभिलाषं निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु ॥
Metre: मन्दाक्रान्ता
भूयश्चाह त्वमपि शयने कण्ठलग्ना पुरा मे निद्रां गत्वा किमपि रुदती सस्वनं विप्रबुद्धा । सान्तर्हासं कथितमसकृत्पृच्छतश्च त्वया मे दृष्टः स्वप्ने कितव रमयन्कामपि त्वं मयेति ॥
Metre: मन्दाक्रान्ता
एतस्मान्मां कुशलिनमभिज्ञानदानाद्विदित्वा मा कौलीनादसितनयने मय्यविश्वासिनी भूः । स्नेहानाहुः किमपि विरहह्रासिनस्ते ह्यभोगादिष्टे वस्तुन्युपचितरसाः प्रेमराशीभवन्ति ॥
Metre: मन्दाक्रान्ता
कच्चित्सोम्य व्यवसितमिदं बन्धुकृत्यं त्वया मे प्रत्याख्यातुं न खलु भवतो धीरतां तर्कयामि । निःशब्दोऽपि प्रदिशसि जलं याचितश्चातकेभ्यः प्रत्युक्तं हि प्रणयिषु सतामीप्सितार्थक्रियैव ॥
Metre: मन्दाक्रान्ता