क्षान्तिश्चेत्कवचेन किं किमरिभिः क्रोधोऽस्ति चेद्देहिनां ज्ञातिश्चेदनलेन किं यदि सुहृद्दिव्यौषधं किं फलम् । किं सर्पैर्यदि दुर्जनाः किमु धनैर्विद्याऽनवद्या यदि व्रीडा चेत्किमु भूषणैः सुकविता यद्यस्ति राज्येन किम् ॥
Metre: शार्दूलविक्रीडितम्
दाक्षिण्यं स्वजने दया परिजने शाठ्यं सदा दुर्जने प्रीतिः साधुजने नयो नृप-जने विद्वज्-जने चार्जवम् । शौर्यं शत्रु-जने क्षमा गुरु-जने कान्ता-जने धृष्टता ये चैवं पुरुषाः कलासु कुशलास्तेष्वेव लोक-स्थितिः ॥
Metre: शार्दूलविक्रीडितम्
जाड्यं धियो हरति सिञ्चति वाचि सत्यं मानोन्नतिं दिशति पापमपाकरोति । चेतः प्रसादयति दिक्षु तनोति कीर्तिं सत्-सङ्गतिः कथय किं न करोति पुंसाम् ॥
Metre: वसन्ततिलका
जयन्ति ते सुकृतिनो रस-सिद्धाः कवीश्वराः । नास्ति येषां यशःकाये जरा-मरण-जं भयम् ॥
Metre: अनुष्टुप्
सूनुः सच्-चरितः सती प्रियतमा स्वामी प्रसादोन्मुखः स्निग्धं मित्रमवञ्चकः परिजनो निःक्लेश-लेशं मनः ।आकारो रुचिरः स्थिरश्च विभवो विद्यावदातं मुखं तुष्टे विष्टप-कष्ट-हारिणि हरौ सम्प्राप्यते देहिना ॥
Metre: शार्दूलविक्रीडितम्
प्राणाघातान्निवृत्तिः पर-धन-हरणे संयमः सत्य-वाक्यं काले शक्त्या प्रदानं युवति-जन-कथा-मूक-भावः परेषाम् । तृष्णा-स्रोतो विभङ्गो गुरुषु च विनयः सर्व-भूतानुकम्पा सामान्यः सर्व-शास्त्रेष्वनुपहत-विधिः श्रेयसामेष पन्थाः ॥
Metre: स्रग्धरा
प्रारभ्यते न खलु विघ्न-भयेन नीचैः प्रारभ्य विघ्न-विहता विरमन्ति मध्याः । विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः प्रारब्धमुत्तम-जना न परित्यजन्ति ॥
Metre: वसन्ततिलका
असन्तो नाभ्यर्थ्याः सुहृदपि न याच्यः कृश-धनः प्रिया न्याय्या वृत्तिर्मलिनमसुभङ्गेऽप्यसुकरम् । विपद्युच्चैः स्थेयं पदमनुविधेयं च महतां सतां केनोद्दिष्टं विषममसिधारा-व्रतमिदम् ॥
Metre: शिखरिणी
क्षुत्-क्षामोऽपि जरा-कृशोऽपि शिथिल-प्राणोऽपि कष्टां दशामापन्नोऽपि विपन्न-दीधितिरिति प्राणेषु नश्यत्स्वपि । मत्तेभेन्द्र-विभिन्न-कुम्भ-पिशित-ग्रासैक-बद्ध-स्पृहः किं जीर्णं तृणमत्ति मान-महतामग्रेसरः केसरी ॥
Metre: शार्दूलविक्रीडितम्
स्वल्प-स्नायु-वसावशेष-मलिनं निर्मांसमप्यस्थि गोः श्वा लब्ध्वा परितोषमेति न तु तत्तस्य क्षुधा-शान्तये । सिंहो जम्बुकमङ्कमागतमपि त्यक्त्वा निहन्ति द्विपं सर्वः कृच्छ्र-गतोऽपि वाञ्छन्ति जनः सत्त्वानुरूपं फलम् ॥
Metre: शार्दूलविक्रीडितम्