शतकत्रयम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शतकत्रयम्

Disable Parallel


Showing 21 to 30 of 324 verses
Verse 21
क्षान्तिश्चेत्कवचेन किं किमरिभिः क्रोधोऽस्ति चेद्देहिनां ज्ञातिश्चेदनलेन किं यदि सुहृद्दिव्यौषधं किं फलम् । किं सर्पैर्यदि दुर्जनाः किमु धनैर्विद्याऽनवद्या यदि व्रीडा चेत्किमु भूषणैः सुकविता यद्यस्ति राज्येन किम् ॥
Metre: शार्दूलविक्रीडितम्

Verse 22
दाक्षिण्यं स्वजने दया परिजने शाठ्यं सदा दुर्जने प्रीतिः साधुजने नयो नृप-जने विद्वज्-जने चार्जवम् । शौर्यं शत्रु-जने क्षमा गुरु-जने कान्ता-जने धृष्टता ये चैवं पुरुषाः कलासु कुशलास्तेष्वेव लोक-स्थितिः ॥
Metre: शार्दूलविक्रीडितम्

Verse 23
जाड्यं धियो हरति सिञ्चति वाचि सत्यं मानोन्नतिं दिशति पापमपाकरोति । चेतः प्रसादयति दिक्षु तनोति कीर्तिं सत्-सङ्गतिः कथय किं न करोति पुंसाम् ॥
Metre: वसन्ततिलका

Verse 24
जयन्ति ते सुकृतिनो रस-सिद्धाः कवीश्वराः । नास्ति येषां यशःकाये जरा-मरण-जं भयम् ॥
Metre: अनुष्टुप्

Verse 25
सूनुः सच्-चरितः सती प्रियतमा स्वामी प्रसादोन्मुखः स्निग्धं मित्रमवञ्चकः परिजनो निःक्लेश-लेशं मनः ।आकारो रुचिरः स्थिरश्च विभवो विद्यावदातं मुखं तुष्टे विष्टप-कष्ट-हारिणि हरौ सम्प्राप्यते देहिना ॥
Metre: शार्दूलविक्रीडितम्

Verse 26
प्राणाघातान्निवृत्तिः पर-धन-हरणे संयमः सत्य-वाक्यं काले शक्त्या प्रदानं युवति-जन-कथा-मूक-भावः परेषाम् । तृष्णा-स्रोतो विभङ्गो गुरुषु च विनयः सर्व-भूतानुकम्पा सामान्यः सर्व-शास्त्रेष्वनुपहत-विधिः श्रेयसामेष पन्थाः ॥
Metre: स्रग्धरा

Verse 27
प्रारभ्यते न खलु विघ्न-भयेन नीचैः प्रारभ्य विघ्न-विहता विरमन्ति मध्याः । विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः प्रारब्धमुत्तम-जना न परित्यजन्ति ॥
Metre: वसन्ततिलका

Verse 28
असन्तो नाभ्यर्थ्याः सुहृदपि न याच्यः कृश-धनः प्रिया न्याय्या वृत्तिर्मलिनमसुभङ्गेऽप्यसुकरम् । विपद्युच्चैः स्थेयं पदमनुविधेयं च महतां सतां केनोद्दिष्टं विषममसिधारा-व्रतमिदम् ॥
Metre: शिखरिणी

Verse 29
क्षुत्-क्षामोऽपि जरा-कृशोऽपि शिथिल-प्राणोऽपि कष्टां दशामापन्नोऽपि विपन्न-दीधितिरिति प्राणेषु नश्यत्स्वपि । मत्तेभेन्द्र-विभिन्न-कुम्भ-पिशित-ग्रासैक-बद्ध-स्पृहः किं जीर्णं तृणमत्ति मान-महतामग्रेसरः केसरी ॥
Metre: शार्दूलविक्रीडितम्

Verse 30
स्वल्प-स्नायु-वसावशेष-मलिनं निर्मांसमप्यस्थि गोः श्वा लब्ध्वा परितोषमेति न तु तत्तस्य क्षुधा-शान्तये । सिंहो जम्बुकमङ्कमागतमपि त्यक्त्वा निहन्ति द्विपं सर्वः कृच्छ्र-गतोऽपि वाञ्छन्ति जनः सत्त्वानुरूपं फलम् ॥
Metre: शार्दूलविक्रीडितम्