ऋतुसंहारम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

ऋतुसंहारम्

Disable Parallel


Showing 21 to 30 of 158 verses
Verse 21
सफेनलालावृतवक्त्रसम्पुटं विनिःसृतालोहितजिह्वमुन्मुखम् । तृषाकुलं निःसृतमद्रिगह्वरादवेक्षमाणं महिषीकुलं जलम् ॥
Metre: वंशस्थम्
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): सफेनेति ॥ महिष्याः कुलं महिषीकुलमदिग्रह्वरात् । अर्द्रेः पर्वतस्य गह्वरः कन्दरा तस्मान्निःसृतं निर्गतं । किं भूतं महिषीकुलम् — सफेनञ्च तल्लालाकुलञ्च सफेनलालाकुलमीदृशं वक्त्रसम्पुटं मुखसङ्कोचं सम्पुटं यस्य तत् । पुनः किंभूतम् — विनिर्याता मुखाद् बहिर्निर्गता आ समन्तात् लोहिता रक्ता जिह्वा यस्य तत् । पुनः किंभूतम् — उन्मुखं उद् ऊर्ध्वीकृतं मुखं येन तत् । पुनः — तृषा तृष्णया आकुलं व्याप्तं । पुनः किं — जलमवेक्षमाणम् अवेक्षते इत्यवेक्ष्यमाणम् । वंशस्थवृत्तानीमानि। तल्लक्षणं — `जतौ तु वंशस्थ मुदीरितं जरौ ॥
चन्द्रिकाटीका (मणिरामः): सफेनेति ॥ सफेनं लोलं चञ्चलमायतं दीर्घं, वक्त्रसम्पुटं मुखसम्पुटं यस्य तत् तथोक्तम् । विनिःसृता निर्गता आसमन्ताल्लोहिता रक्ता जिह्वा यस्य तत् तथोक्तमुन्मुखमूर्ध्वमुखम् तृषा पिपासमाकुलं व्याकुलमतएव जलं सलिलमवेक्ष्यमाणं निरीक्षमाणं महिषीकुलमद्रिगह्वराद् गिरिगह्वरान्निःसृतं निर्गलमित्यर्थः । `अद्रिगोत्रगिरिर्ग्रावा` इत्यमरः (अ.को.2।3।1)

Verse 22
पटुतरदवदाहोच्छुष्कसस्य प्ररोहाः परुषपवनवेगोत्क्षिप्तसंशुष्कपर्णाः । दिनकरपरितापक्षीणतोयाः समन्ताद्विदधति भयमुच्चैर्वीक्ष्यमाणा वनान्ताः ॥
Metre: मालिनी
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): पटुतरेति ॥ वनानामन्ताः वनान्ताः प्रान्ता वीक्ष्यमाणाः सन्तः उच्चैरतिशयेन भयं विदधति भयं कुर्वन्तीत्यर्थः । किं भूताः वनान्ताः — पटुतरोऽधिको योऽसौ दवदाहो दवाग्निसम्बन्धी दाहस्तेन प्लुष्टा दग्धाः सस्यानां शष्पाणां प्ररोहा येषु ते । पुनः किं भूताः — परुषः कठोरो योऽसौ पवनो वायुस्तस्य वेगाधिक्यं तेनोत्क्षिप्तानि उच्छालितानि शुष्कपर्णानि येषां ते । पुनः किं भूताः — समन्तात् सर्वथा दिनकरस्य सूर्यस्य परितापः तस्मात् क्षीणानि स्वल्पीभूतानि शुष्काणि वा तोयानि येषु ते ॥
चन्द्रिकाटीका (मणिरामः): पटुतरेति ॥ पटुतरोऽतिसमर्थो यो दवो दावस्तस्य दावोच्छुष्काः दहनोच्छुष्काः सस्यप्ररोहाः सस्याङ्कुरा येषु ते तथोक्ताः । परुषो निष्ठुरो यः पवनो वायुस्तस्य वेगेनोत्क्षिप्तान्युर्ध्वक्षिप्तानि संशुष्कानि पर्णानि पत्राणि येषु ते तथोक्ताः । समन्तादितस्ततो दिनकरस्य परितापेनातपेन क्षीणानि तोयानि येषु ते तथोक्ताः उच्चैरुच्चप्रदेशतो वीक्ष्यमाणा अवलोक्यमाना वनान्ता अरण्यप्रान्ता भयं विदधतीत्यर्थः । मालिनीवृत्तमेतत् । तल्लक्षणं तु `ननमययुतेयं मालिनी भोगिर्लोकैः` इति ॥

Verse 23
श्वसिति विहगवर्गः शीर्णपर्णद्रुमस्थः कपिकुलमुपयाति क्लान्तमद्रेर्निकुञ्जम् । भ्रमति गवययूथः सर्वतस्तोयमिच्छञ्शरभकुलमजिह्मं प्रोद्धरत्यम्बु कूपात् ॥
Metre: मालिनी
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): श्वसितीति ॥ विहगवर्गः विहगानां वर्गः पक्षिणां वर्गः । सजातीयसमूहो वर्गः। शीर्णानि पतितानि पर्णानि येषां ते एवंविधा ये द्रुमा वृक्षास्तेषामन्तर्मध्ये वसति । पुनः क्लान्तं खेदखिन्नं कपिकुलं कपीनां वानराणां कुलं कपिकुलम् । अर्द्रेः पर्व्तस्य निकुञ्जं वनमुपयाति वनं गच्छतीत्यर्थः । पुनर्गवयानामरण्यगवानां युथः समूहस्तोयं जलमिच्छन् सन् । सर्वतः सर्वस्यां दिशि भ्रमति । पुनः शरभाणामष्टापदजीवानां कुलमजिह्मं कुटिलं यथा स्यात् तथा कूपादम्बु पानीयं प्रोद्धरति निष्कासयतीत्यर्थः ॥
चन्द्रिकाटीका (मणिरामः): श्वसितीति ॥ शीर्णानि गलितानि पर्णानि पत्राणि यस्य स तादृशो यो द्रुमो वृक्षस्तत्र तिष्ठतीति स तथोक्तो विहगवर्गः पक्षिसमुदायः। श्वसिति श्वासोच्छ्वासं करोति । क्लान्तं म्लानं कपिकुलं वानरसमूहोऽर्द्रेः पर्वतस्य निकुञ्जं लतागृहम् । `निकुञ्जकुञ्जौ वा क्लीवे` इत्यमरः (अ.को.2।3।9) । उपयाति गच्छतीत्यर्थः । गवया गोसदृशमृगविशेषास्तेषां यूथः समुदायस्तोयं जलमिच्छन् सर्वत इतस्ततो भ्रमति । अजिह्मकुटिलं शरभानां कुलं शरभा अषटटापदपशुविशेषास्तेषां कुलं समुदायः कूपादम्बु जलं प्रोद्धरति गृह्णातीत्यर्थः ॥

Verse 24
विकचनवकुसुम्भस्वच्छसिन्दूरभासा प्रबलपवनवेगोद्भूतवेगेन तूर्णम् । तटविटपलताग्रालिङ्गनव्याकुलेन दिशि दिशि परिदग्धा भूमयः पावकेन ॥
Metre: मालिनी
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): विकचेति ॥ पावकेन दवाग्निना दिशि दिशि भूमयः परि सामस्त्येन दग्धाः परिदग्धाः । किंभूतेन पावकेन — विकचं विकसितं यन्नवं नूतनं कुसुम्भं पुनर्यत् स्वच्छं निर्मलं सिन्दूरं तद्वद् भाः कान्तिर्यस्य तेन । पुनः किं भूतेन — तूर्णं शीघ्रम् प्रबलो योऽसौ पवनस्तेनोद्धूतः प्रकटितो वेगो यस्य तेन । पुनः किं भूतेन — तनवः कृशाः सुक्ष्माः विकचाः विकस्वराश्च ये लताग्रा लतानामग्रप्रदेशाश्च तनुविकचलताग्रास्तेषामालिङ्गनं तत्र व्याकुलस्तेन । `तरुविटपलता` इति वा पाठः । तत्र तरुणां विटपाः शाखाश्च लताग्राश्च तेषामालिङ्गनं तेन व्याकुलो भयकृत् तेन ॥
चन्द्रिकाटीका (मणिरामः): विकचेति ॥ विकचः प्रफुल्लो नवो नूतनः कुसुम्भस्तद्वत् स्वच्छो निर्मलो यः सिन्दूरस्तस्य भा इव भाः कान्तिर्यस्य तेन तथोक्तेन । प्रबलस्य पवनस्य वेगेनोद्भूतः सम्भूतो वेगो यस्य तेन तथोक्तेन । तटविटपानां तीरस्थवृक्षशाखानां लताग्राणां चालिङ्गनेन परिरम्भणेन व्याकुल आकुलस्तेन तथोक्तेन पावकेन वह्निना दिशि दिशि प्रतिदिशं तूर्णं सत्वरं भूमयः परिदग्धाः संदग्धा इत्यर्थः ॥

Verse 25
ज्वलति पवनवृद्धः पर्वतानां दरीषु स्फुटति पटुनिनादैः शुष्कवंशस्थलीषु । प्रसरति तृणमध्ये लब्धवृद्धिः क्षणेन ग्लपयति मृगवर्गं प्रान्तलग्नो दवाग्निः ॥
Metre: मालिनी
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): ज्वलतीति ॥ हि निश्चितं वह्निर्मृगाणां वर्गः समूहस्तं तपयति । किं भूतो वह्निः प्रान्तेषु लग्नः वनान्तेषु लग्नः । पुनः किं भूतः — पवनविद्धः सन् वायुप्रेरितः सन् । पर्वतानां दरीषु गुहासु पतति । पुनः किं भूतः पटुनिनादः सन् प्रकटरवः सन् । शुष्कवंशस्थलीषु शुष्का वंशा वेणुवृक्षा यत्रेदृश्यो याः स्थल्यः स्थलभूमयः तथा तासु स्फुटति । स्फुट स्फुट इति शब्दं करोतीत्यर्थः । तृणमध्ये क्षणेन लब्धवृद्धिः प्राप्तारिकः सन् प्रसरति ॥
चन्द्रिकाटीका (मणिरामः): ज्वलतीति ॥ पवनेन वायुना वृद्धो वृद्धि प्राप्तो दवाग्निर्दावानलः । `दवदावौ वनानिलौ` इत्यमरः (अ.को.3।3।217) । पर्वतानां दरीषु कन्दरेषु ज्वलति । तथा शुष्का वंशा वेणवो यासु ताः स्थल्योऽकृत्रिमभूमयस्तासु पटुतरध्वनिभिः स्फुटति विकासभावमाप्नोति । तथा क्षणेन क्षणादेव लब्धा प्राप्ता बुद्धिर्येन तथोक्तः संस्तृणमध्ये प्रसरति । तथा प्रान्तलग्नः सन् मृगवर्गं हरिणसमूहं ग्लपयति व्याकुलं करोतीत्यर्थः ॥

Verse 26
बहुतर इव जातः शाल्मलीनां वनेषु स्फुरति कनकगौरः कोटरेषु द्रुमाणाम् । परिणतदलशाखानुत्पतन्प्रांशुवृक्षान्भ्रमति पवनधूतः सर्वतोऽग्निर्वनान्ते ॥
Metre: मालिनी
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): बहुतर इति ॥ अग्निः पवनधूतः पवनप्रेरितः सन् वनान्ते वनस्यान्तः वनान्तस्तस्मिन् भ्रमति । किं भूतः अग्निः — शाल्मलीनां शाल्मलीवृक्षाणां वनेषूत्प्रेक्षते । पदुतरोऽतिशयेन प्रकटितसाधवो जात इव । पुनर्द्रुमाणं वृक्षाणं कोटिरेषु कनकवद्गौरो गौरवर्ण स्फुरति लगति । किं कुर्वन् — शुष्काश्च ते वृक्षाश्च शुष्कवृक्षास्तान् निर्दहन् प्रज्वालयन्। किंविशिषटान् शुष्कवृक्षान् परिहृतदलशाखान् परिहृतानि गतानि दलानि पत्राणि शाखा विटपाश्च येषां ते तथा तान् ॥
चन्द्रिकाटीका (मणिरामः): बहुतर इति ॥ अग्निः शाल्मलीनां वनेषु बहुतरः प्रचुररूपो जात इव स्फुरति । द्रूमाणं कोटरेषु शाखागह्वरेषु कनकगौरः काञ्चनगौरः स्फुरति । पवनेन वायुना धूतः कम्पितः सन् अतएव परिणताः परिपक्वा दलानि पर्णानि शाखाश्च येषां तान् तथोक्तान् प्रांशुवृक्षानुन्नतद्रुमान् उत्पतन् सन् सर्वतः समन्ततो वनान्ते भ्रमति भ्रमणं करोतीत्यर्थः ॥

Verse 27
गजगवयमृगेन्द्रा वह्निसंतप्तदेहाः सुहृद इव समेता द्वंद्वभावं विहाय । हुतवहपरिखेदादाशु निर्गत्य कक्षाद्विपुलपुलिनदेशां निम्नगां संविशन्ति ॥
Metre: मालिनी
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): गजेति ॥ गजाश्च गवया वनगवाश्च मृगेन्द्राः सिंहाश्च गजगवयमृगेन्द्राः हुतवहपरिखेदात् हुतवहस्याग्नेः परिखेदः परितापस्तस्मात् । द्वन्द्वस्य वैरस्य भावो द्वन्द्वभावः शत्रुत्वं विहाय त्यक्त्वा आशु शीघ्रं निम्नगां नदीमाश्रयन्ते । किं कृत्वा — कक्षात् तृणप्रदेशान्निर्गत्य । कीदृशाः — वह्निसंतप्तदेहाः वह्निसंतप्ता देहा येषां ते । पुनः — सुहृदो मित्राणीव समेताः मिलिताः । किं भूतां निम्नगाम् — विपुलो विस्तीर्णः पुलिनस्य देशः प्रदेशो यस्यां सा तथा ताम् ॥
चन्द्रिकाटीका (मणिरामः): गजेति ॥ वह्निना दावाग्निना सन्तप्तो देहः शरीरं येषां ते तथोक्ता अत एव द्वन्द्वभावं वैरभावं विहाय त्यक्त्वा सुहृदो मित्राणीव समेता सङ्गताः गजगवयमृगेन्द्रा गजो इभः गवयो गोसदृशो मृगविशेषः मृगेन्द्रः सिंहश्च ते हुतवहस्य वहनेः परिखेदात् सन्तापात् यद्वा हुतवहस्य परिखेदो यत्र तस्मात्तथोक्तात् । कक्षाद् गिरिगह्वरादाशु झटिति निर्गत्य विपुलो महान् पुलिनदेशस्तीरप्रान्तो यस्यास्तां तथोक्तं निम्नगां नदीं संविशन्ति आश्रयन्त इत्यर्थः ॥

Verse 28
कमलवनचिताम्बुः पाटलामोदरम्यः सुखसलिलनिषेकः सेव्यचन्द्रांशुहारः । व्रजतु तव निदाघः कामिनीभिः समेतो निशि सुललितगीते हर्म्यपृष्ठे सुखेन ॥
Metre: मालिनी
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): कमलेति ॥ कविर्भोजराजं प्रति वदति — हे राजन तव निदाघो ग्रीष्मः। हर्म्यपृष्ठे गृहपरिभोगे । सुखेन कामिनीभिर्ललनाभिः समेतं सार्द्धम् । व्रजतु गच्छतु । कैः — निशि रात्रौ सुललितगीतैः । सु अतिशयेन ललितानि मनोहराणि यानि गीतानि तैः । किंभूतो निदाघः — कमलवनैः पङ्कजकाननैः निश्चितं व्याप्तमम्बु यत्र सः। पुनः कीदृशः — पाटलानामामोदः परिमलः तेन रम्यो रमणीयः । पुनः कीदृशः — सुखः सुखदायी सलिलनिषेको जलसेवनं स्नानादिर्यत्र स सुखसलिलनिषेकः । पुनः कीदृशः — सेव्यः सेवनीयश्चन्द्रांशुमयो हारो यत्र सः । अत्रेतानि वस्तूनि ग्रीष्मतापहारीणि भवन्तीति भावः । यदुक्तम् — `स्नानं सुशीतं सलिलं सरोजं सरोवरः शीतकरः सुगन्धः । सन्ध्या स्त्रियः सेकतिकी तटानि, ग्रीष्मेऽतिहर्षाय भवन्त्यभूरि ॥` मालिनीवृत्तानीमानि सप्तकाव्यानि । तल्लक्षणं — `ननमयययुतेयं मालिनी भोगिलोकैः` इति । श्रीमान् कीर्तिवरसूरिगुणाकराणां पट्टेऽनुवै अमरकीर्तिर्विनिर्मितायां । श्रीमद्विशेषकमहानद्यकाव्यवृत्तौ सर्गोऽजनि प्रथम एष नृपाभिरम्यः ॥ इति श्रीमान्नागपूरीय तपागच्छीय भट्टारक श्री अमर कीर्तिसूरिकृतायां श्रीकालिदासकृत विशेषकाव्यटीकायां ग्रीष्मऋतुवर्णनो नाम प्रथमः सर्गः ॥
चन्द्रिकाटीका (मणिरामः): कमलेति ॥ सुललितमतिरमणीयं गीतं गानं यस्यास्तस्याः सम्बोधनं हि सुललितगीते। कमलानां पङ्कजानां वनेन समुदायेन चितं व्याप्तमम्बु जलं यस्मिन् स तथोक्तः । पाटलानां पाटलकुसुमानामामोदो गन्धो रम्यो रमणीयो यस्मिन् स तथोक्तः । यद्वा पाटलामोदेन रम्यो रमणीय इति । सुखः सुखकरः सलिलस्य निषेकः स्नानं यस्मिन् स तथोक्तः । सेव्याः सेवितुं योग्याश्चन्दरस्यांशवः किरणा हाराः कुसुममालाश्च यस्मिन् स तथोक्तः । कामिनीभिः समेतो युक्तो निदाघो निदाघकालो निशि रात्रौ हर्म्यपृष्ठे प्रासादतले सुखेन तव व्रजतु गच्छत्वित्यर्थः ॥ इति श्रीभारद्वाजगोत्रोत्पन्नमणिरामविरचितया चन्द्रिकाख्यया व्याख्यया समेता कवि श्रीकालिदास कविवराग्रणीकृतावृतुसंहारे महाकाव्ये ग्रीष्मवर्णनं नाम प्रथमः सर्गः ॥

Verse 1
ससीकराम्भोधरमत्तकुञ्जरस्तडित्पताकोऽशनिशब्दमर्दलः । समागतो राजवदुद्धतद्युतिर्घनागमः कामिजनप्रियः प्रिये ॥
Metre: वंशस्थम्
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): ससीकरेति ॥ हे प्रिये वल्लभे, घनागमः मेघागमः समागतः। किं भूतः — कामिनश्च ते जनाश्च कामिजनास्तेषां प्रियो वल्लभः । किं कुर्वन् — राजवद् नृपवद् ध्वनिं रवमुद्वहन् । यथा राजा दुन्दुभ्यादिना ध्वनिं कुर्वन् समायाति तथाऽयमपि गजरिवं कुर्वन् समायाति । पुनः किंभूतः — सह शीकरैर्जलकणैः वर्तते इति सशीकर एवंविधो योऽसावम्भोधरो मेघः स एव मत्तः कुञ्जरो हस्ती यत्र सः । पुनः किंभूतः — तडितो विद्युत एव पताका यस्य सः । पुनः किंभूतः — अशनेर्वज्रस्य शब्दसदृशो गर्जितशब्दः स एव मर्दलो यत्र सः । अनेन वर्षर्तोरुत्कर्षः सूचितः ॥
चन्द्रिकाटीका (मणिरामः): अथ क्रमप्राप्तं वर्षाकालं वर्णयति — ससीकरेति ॥ हे प्रिये, ससीकरः साम्बुकणो योऽम्भोधरो जलधरः स एव मत्तः प्रमत्तः कुञ्जरो गजो यस्य स तथोक्तः । पक्षे ससीकराम्भोधर इव मत्तः कुञ्जरो यस्येति । `सीकरोऽम्बुकणः स्मृताः` इत्यमरः (अ.को.1|3|13)। तडिद् विद्युदेव पताका यस्य स तथोक्तः । पक्षे तडिदिव पताका यस्येति । `तडित्सौदामिनी विद्युत` इत्यमरः (अ.को.1|3|11)। अशनि शब्द एव मर्दलः पक्षे अशनिर्वज्र इव यः शब्दो निनादः स एव मर्दलो वाद्यविशेषो यस्य स तथोक्तः । उद्धतद्युतिरुत्कटकान्तिः कामिजनप्रियो घनागमो वर्षाकालो राजवत्समागतः आगत इत्यर्थः । वंशस्थं वृत्तं लक्षणं तूक्तम् ॥

Verse 2
नितान्तनीलोत्पलपत्त्रकान्तिभिः क्वचित्प्रभिन्नाञ्जनराशिसंनिभैः । क्वचित्सगर्भप्रमदास्तनप्रभैः समाचितं व्योम घनैः समन्ततः ॥
Metre: वंशस्थम्
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): नितान्तेति ॥ व्योमाकाशं समन्ततः सर्वासु दिक्षु घनैर्मेघैः समाचितं व्याप्तम् । कथं भूतैः घनैः — नितान्तमत्यर्थं नीलोत्पलपत्रवत् कान्तिः येषां ते तथा तैः । पुनः कथं भूतैर्घनैः — क्वचित् कस्मिंश्चित् प्रदेशे प्रभिन्नं विदीर्णभावमाप्तम् अञ्जनं तस्य राशिः पुञ्जस्तेन सन्निभास्तुल्यास्तैः । पुनः कीदृशैः क्वचित् प्रदेशे सगर्भा या प्रमदा तस्याः स्तनौ तद्वत्प्रभा गौरकान्तिः येषां तैः तथा तैः ॥
चन्द्रिकाटीका (मणिरामः): नितान्तेति ॥ क्वचिन्नितान्तमत्यन्तं नीलानि कृष्णानि यान्युत्लानि कुवलयानि तेषां पत्राणां दलानां कान्तिरिव कान्तिर्येषां तैस्तथोक्तैः क्वचित्कुत्रचिद्भागे प्रभिन्नो योऽञ्जनराशिः कज्जलसमृहस्तेन सन्निभैः सदृशैः । क्वचित्सगर्भाणां गर्भवतीनां प्रमदानां स्त्रीणां ये स्तनाः कुचास्तेषां प्रभेव प्रभा कान्तिर्येषां तैस्तथोक्तैः घनैर्मेघैर्व्योमाकाशम् समन्तत इतस्ततः समाचितं व्याप्तमित्यर्थः ॥