ऋतुसंहारम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

ऋतुसंहारम्

Disable Parallel


Showing 11 to 20 of 158 verses
Verse 11
मृगाः प्रचण्डातपतापिता भृशं तृषा महत्या परिशुष्कतालवः । वनान्तरे तोयमिति प्रधाविता निरीक्ष्य भिन्नाञ्जनसंनिभं नभः ॥
Metre: वंशस्थम्
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): मृगाः प्रचण्डेति ॥ मृगा वनान्तरे वनमध्ये भिन्नाञ्जनसन्निभं भिन्नं द्विधाकृतञ्च तदञ्जनञ्च भिन्नाजनं तेन सन्निभं सदृशं तथा तन्नभ आकाशप्रदेशं निरीक्ष्य दृष्ट्वा तोयमिति एतत्तोयं जलमस्तीति निश्चित्य प्रधाविताः । किंभूताः मृगाः — भृशमित्यर्थं प्रचण्डातपतापिताः प्रचण्डो रौद्रो योऽसावातपः प्रचण्डातपस्तेन तापिताः । पुनः किंभूताः मृगाः — महत्याऽतिवृद्धिं प्राप्तया तृषा कृत्वा परिशुष्कतालवः परिशुष्काणि तालूनि येषां ते तथा । अनेन मृगाणामप्ययं कालो दुःसहः किंपुनः कामिनामिति सूचितम् ॥
चन्द्रिकाटीका (मणिरामः): मृगा इति ॥ भृशमत्यन्तं प्रचण्डस्तीक्ष्णतरो य आतपः उष्णं तेन तापिताः सन्तापिताः । महत्या तृषा पिपासया परिशुष्काः संशुष्कास्तालवो येषां ते तथोक्ता मृगा हरिणा भिन्नेनाञ्जनेन सन्निभं तुल्यं नभ आकाशं निरीक्ष्य वीक्ष्य तोयं जलमिति शङ्कया वनान्तरेऽन्यद्वने प्रधाविता दुद्रुवुः ॥

Verse 12
सविभ्रमैः सस्मितजिह्मवीक्षितैर्विलासवत्यो मनसि प्रवासिनाम् । अनङ्गसंदीपनमाशु कुर्वते यथा प्रदोषाः शशिचारुभूषणाः ॥
Metre: वंशस्थम्
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): सविभ्रमैरिति ॥ विलासवत्यो विलासो विद्यते यासां ता विलासवत्यो नार्य आशु शीघ्रं सविभ्रमैर्भ्रूविलाससहितैः सस्मितजिह्मं सहास्यकुटिलं यथा स्थात्तथा ईक्षितैर्दर्शनैः कृत्वा प्रसङ्गिनां स्त्रीणां प्रकर्षेण सङ्गः संयोगोऽस्त्येषामिति प्रसङ्गिनस्तेषाम् अर्थात् कामिनां मनसि चेतस्यनङ्गसन्दीपनं कामोद्दीप्तिं कुर्वते । क इव — यथा प्रदोषाः प्रसङ्गिनां मनसि अनङ्गसन्दीपनं कुर्वते । किंभूताः प्रदोषाः —शशी चन्द्र इव चारु मनोहरं भूषणं येषां ते तथा ॥
चन्द्रिकाटीका (मणिरामः): सविभ्रमैरिति ॥ यथा शशिचारुभूषणः शश्येव चन्द्र एव चारु सुन्दर भूषणमेषां ते तथोक्ताः प्रदोषाः सन्ध्यासमयाः प्रवासिनां मन्स्यन्तःकरणेऽनङ्गसन्दीपनं कामसन्दीपनं कुर्वते । तथेत्यध्याहार्यम् । शशिचारुभूषणाः शशी चन्द्रस्तद्वच्चारुणि सुन्दराणि भूषणानि यासां तास्तथोक्ताः । विलासवत्यो विलासिन्यः सविभ्रमैर्विभ्रमसहितैः । सस्मितानि सहास्यानि जिह्यानि कुटिलानि वीक्षितानि निरीक्षणानि तैः कृत्वा प्रवासिनां मनस्याशु झटित्यनङ्गसन्दीपनं कामस्योद्दीपनं कुर्वत इत्यर्थः ॥

Verse 13
रवेर्मयूखैरभितापितो भृशं विदह्यमानः पथि तप्तपांसुभिः । अवाङ्मुखो जिह्मगतिः श्वसन्मुहुः फणी मयूरस्य तले निषीदति ॥
Metre: वंशस्थम्
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): रवेर्मयूखैरिति ॥ फणी सर्पो मयूरस्य तले निषीदति तिष्ठति । कथंभूतः फणी — रवेः सूर्यस्य मयूखैः किरणैर्भृशमभितापितः सन्तापितः । पुनः किंभूतः फणी — पथि मार्गे तप्तांसुभिः तप्तरेणुभिर्विदह्यमानो विशेषेण दह्यमानः । पुनः किंभूतोऽवाक्फणः — अवाचोऽधोमुखाः फणा यस्य सोऽवाक्फणः । पुनः किंभूतो — जिह्मगतिः जिह्मा वक्रा मन्दा च गतिर्यस्य स जिह्मगतिः । `जिह्मो वक्रश्च मन्दश्च` । फणी मयूरेण सह स्वभावस्य वैरमपि न स्मरतीत्यर्थः ॥
चन्द्रिकाटीका (मणिरामः): रवेरिति ॥ रवेः सूर्यस्य मयूखैः किरणैः । `किरणोऽस्रमयूखांशु गभस्तिघृणिरश्मयः` इत्यमरः (अ.को.1।3।37) । अभितापितः सन्तापितः। भृशमत्यन्तं पथि मार्गे तप्तपांसुभिरुष्णरजोभिर्विदह्यमानः अवाङ्मुखोऽधोमुखो जिह्मगतिः कुटिलगमनो मुहूर्वारं वारं श्वसञ्छ्वासोच्छ्वासं कुर्वन् फणी सर्पो मयूरस्य वर्हिणः । `मयूरो वर्हिणो वर्ही` इत्यमरः (अ.को.2।5।32) । तलेऽधोभागे निषीदत्यवतिष्ठत इत्यर्थः ॥

Verse 14
तृषा महत्या हतविक्रमोद्यमः श्वसन्मुहुर्दूरविदारिताननः । न हन्त्यदूरेऽपि गजान्मृगेश्वरो विलोलजिह्वश्चलिताग्रकेसरः ॥
Metre: वंशस्थम्
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): तृषेति ॥ मृगाधिपः सिंहोऽदूरे समीपे गजान् हस्तिनो न हन्ति । किं भूतो मृगाधिपः — महत्याऽधिकतरया तृषा कृत्वा हृतो गतो विक्रमस्य पराक्रमस्योद्यमो यस्य सः अथवा विक्रमलक्षण उद्यमो यस्य सः । पुनः किंभूतः — मुहुवरिं वारं श्वसन् । पुनः किंभूतः — दूरविदारिताननः दूरमतिशयेन विदारितं प्रसारितं आननं मुखं येन सः । पुनः किंभूतः — विलोला चपला जिह्वा रसना यस्य सः । पुनः किंभूतः — स्खलिताग्रकेसरः स्खलिताश्चलिता अग्रकेसराः केसराग्राणि यस्य सः । ग्रीष्माधिक्यात् सिंहस्यापि पराक्रमः क्षीणत्वमापन्नः किं पुनः कामिनामिति भावः ॥
चन्द्रिकाटीका (मणिरामः): तृषेति ॥ महत्या तृषा पिपासया हतो विक्रमस्य पराक्रमस्योद्यम उद्योगो यस्य स तथोक्तः । मुहुर्वारं वारं दूराद् विदारितं विस्तारितमाननं मुखं येन स तथोक्तः । विलोलजिह्वश्चलिताश्चञ्चला अग्रकेसरा अग्रसटा यस्य स तथोक्तो मृगेश्वरः सिंहः । `सिंहो मृगेन्द्रः पञ्चास्यः` इत्यमरः (अ.को.2।5।1) । अदूरेऽपि समीपे वर्तमानमिति शेषः । गजान् मातङ्गान् न हन्ति मारयतीत्यर्थः । न हि जायते स्वस्मिन् क्लेशिते परहनने प्रवृत्तिरिति भावः ॥

Verse 15
विशुष्ककण्ठोद्गतसीकराम्भसो गभस्तिभिर्भानुमतोऽनुतापिताः । प्रवृद्धतृष्णोपहता जलार्थिनो न दन्तिनः केसरिणोऽपि बिभ्यति ॥
Metre: वंशस्थम्
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): विशुष्केति ॥ दन्तिनो गजाः केसरिणः सिंहादपि न बिभ्यति भयं न प्राप्नुवन्ति । किंभूता दन्तिनाः — विशुष्को योऽसौ कण्ठस्तस्मदाहृतानि आकृष्टानि अम्भसः शीकराणि शीकराम्भांसि शुण्डान्तःस्थलजललवा यैस्ते । `वमधुः करशीकरः` इति हैमः । पुनः किंभूताः — भानुमतः सूर्यस्यगभस्तिभिः किरणैरभितापिताः अभि समन्तात् तापिताः। पुनः — प्रवृद्धा वृद्धिं प्राप्ता या तृष्णा तयोपहता निरुद्योगाहतप्रायाः प्रवृद्धतृष्णोपहताः । पुनः किंभूतः — जलमर्थयन्ति याचयन्तीति जलार्थिनः । अनेन गजा अपि निस्तेजत्वात् सिंहान्नापसर्पन्तीति ग्रीष्मातिरेको वर्णितः ॥
चन्द्रिकाटीका (मणिरामः): विशुष्केति ॥ विशुष्केण कण्ठेनाहृतं गृहीतं सीकराम्भस्तुषारजलं यैस्ते तथोक्ता भानुमतः किरणमालिनः सूर्यस्य गभस्तिभी रश्मिभिरनुतापिताः सन्तापिताः । प्रवृद्धतृष्णयात्यधिकपिपासयोपहताः पीडिताः । अतएव जलार्थिना जलकाङ्क्षिणो दन्तिनो गजाः केसरिणोऽपि सिंहादपि न बिभ्यति भयं न प्राप्नुवन्तीत्यर्थः ॥

Verse 16
हुताग्निकल्पैः सवितुर्गभस्तिभिः कलापिनः क्लान्तशरीरचेतसः । न भोगिनं घ्नन्ति समीपवर्तिनं कलापचक्रेषु निवेशिताननम् ॥
Metre: वंशस्थम्
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): हुता ॥ कलापिनो मयूरा भोगिनं सर्पं न घ्नन्ति । किं भूताः कलापिनः — सवितुः सूर्यस्य मरीचिभिरुस्रैः क्लान्तं खेदोपहतं शरीरस्य चेतो येषां ते तथा । किं भूतैः मरीचिभिः — हुताग्निकल्पैः हुतश्चासावग्निश्च हुताग्निः ईषद्धुताग्निवदिति हुताग्निकल्पास्तैः । ईषदपरिसमाप्तौ कल्पब्देश्यदेशीयरः (पा. 5।3।67) हुतो योऽसौ अग्निर्हुताग्निस्तेन कल्पास्तुल्यास्तैः । किं भूतं भोगिनं — समीपे वर्तते यः सः समीपवर्ती तम् । पुनः — कलापचक्रेषु बहिर्मण्डलेषु निवेशितं स्थापितम् आननं येन तं निवेशिताननम् । अत्र मयूरा अपि हततेजसो जाता इत्यर्थः ॥
चन्द्रिकाटीका (मणिरामः): हुताग्निकल्पैरिति ॥ सवितुः सूर्यस्य हुताग्निकल्पैर्हुतश्चसावग्निश्च तत्कल्पैस्तत्सदृशैः । तद्वदत्यन्तप्रचण्डैरिति यावत् । गभस्तिभिरंशुभिः क्लान्तं म्लानं शरीरं वपुश्चेतश्च येषां ते तथोक्ताः कलापिनो मयूराः कलापचक्रेषु बर्हमण्डलेषु निवेशितं प्रवेशितमाननं मुखं येन तत्तथोक्तं समीपवर्तिनं भोगिनं सर्गं न घ्नन्ति । न मारयन्तीत्यर्थः ॥

Verse 17
सभद्रमुस्तं परिशुष्ककर्दमं सरः खनन्नायतपोतृमण्डलैः । रवेर्मयूखैरभितापितो भृशं वराहयूथो विशतीव भूतलम् ॥
Metre: वंशस्थम्
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): सभद्रेति ॥ ॥ वराहयूथः वराहाणां शूकराणां यूथः समूहो भूतलं पृथ्वीतलं विशतीव प्रवेशं करोतीव । किं कुर्वन् । आयता दीर्घा ये पोतृमण्डला मुखाग्रमण्डलास्तथा तैः सरः खनन् । कथं भूतं सारः — सभद्रमुस्तम् । भद्रमुस्तेन गुन्द्रया सह वर्तते इति तत् । पुनः कथं भूतं — परि सामस्त्येन पाण्डुः श्वेतवर्णः अर्थाच्छुष्कः कर्दमो पङ्को यत्र तत् तथा तत् । कथं भूतः वराहयूथः — प्रदीप्ता सोढुमशक्या भाः कान्तिर्यस्य स प्रदीप्तभास्तेन रविणा सूर्येण अभितापितः ॥
चन्द्रिकाटीका (मणिरामः): सभद्रेति ॥ भद्रमुस्तेन `भद्रमोथा` इति प्रसिद्धेन सहितं परिशुष्कः कर्दमः पङ्को यस्मिस्तत्तथोक्तं सरः सरोवरमायतानि दीर्घाणि यानि पोतृमण्डानि तैः कृत्वा खनन् । खेः सूर्यस्य मयूखैः किरणैभृशंअत्यन्तमभितापितः सन्तापितो वराहयूथः सूकर समूहः । `वराहः सूकरो धृष्टिः` इत्यमरः (अ.को.2।5।3) । भूतलं भूगर्भं विशतौव प्रविशतीवेत्युतप्रेक्षा ॥

Verse 18
विवस्वता तीक्ष्णतरांशुमालिना सपङ्कतोयात्सरसोऽभितापितः । उत्प्लुत्य भेकस्तृषितस्य भोगिनः फणातपत्रस्य तले निषीदति ॥
Metre: वंशस्थम्
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): विवस्वता ॥ भेको मण्डूकस्तृषितस्य तृषाकान्तस्य भोगिनः सर्पस्य फणातपत्रस्य फणैवातपत्रं छत्रं फणातपत्रं तस्य तले निषीदत्युपविशति । किं कृत्वा — सरसतडागादुत्प्लुतस्य निःसृत्य । किं विशिष्टात् सरसः — हि निश्चयं विवस्वता सूर्येणसह्ययोयात् असह्यं सोढुमशक्यम् अर्थात् तप्तं तोयं यस्य तत् तथा तस्मात् । किं भूतेन विवस्वता — तीक्ष्णतरांशुमालिना । अतिशयेन तीक्ष्णग्रीष्मत्वात् तीव्रा येऽंशवः किरणास्तीक्ष्णतरांशवस्तान् मलते धारयतीति तथा तेन । मल मल्लधारणे धातुः (भ्वादि 494-495) । कथं भूतो भेकोऽभितापितो विवस्वतेत्यनुवर्त्तनीयम् । अनेन घर्म्मेबाहूल्यं सूचितम् ॥
चन्द्रिकाटीका (मणिरामः): विवस्वतेति ॥ तीक्ष्णतरैः प्रचण्डतरैरंशुभिः किरणैर्मलिते शोभते तथोक्तेन विवस्वता सूर्येणाभितापितो भेको मण्डूकः । `भेको मण्डूकवर्षाभूः` इत्यमरः (अ.को.1।10।24) । पङ्कतोयेन कर्दमजलेन सहितं युक्तं तस्मात् तथोक्तात् सरसः सरोवरादुत्प्लुतस्य तृषितस्य भोगिनः पन्नगस्य । `डरगः पन्नगो भोगी` इत्यमरः (अ.को.1।8।8) । फणैवातपत्रं छत्रं तस्य तलेऽधोभागे निषीदति । तिष्ठतीत्यर्थः ।

Verse 19
समुद्धृताशेषमृणालजालकं विपन्नमीनं द्रुतभीतसारसम् । परस्परोत्पीडनसंहतैर्गजैः कृतं सरः सान्द्रविमर्दकर्दमम् ॥
Metre: वंशस्थम्
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): समुद्धृतेति ॥ गजैर्हस्तिभिः सरः तडागः सान्द्रः सघनो विमर्देनावगाहेन कर्दमो यत्र तदीदृशं तत् कृतम् । किं भूतं सरः — समुद्धतान्युत्पातितान्यशेषमृणालानां समस्तकमलतन्तूनां जालकानि समूहानि यस्मात् तत् । पुनः किं भूतं — विपन्ना स्वेदखिन्ना उपविष्टा वा मीना यत्र तद्विपन्नमीनं । अद्भुतवीतासारसं निषन्नमीनं च तदद्भुतवीतरारसञ्च तत् । किंभूतैर्गजैः — परस्परमुत्पीडनेन संहता एकत्रीभूताः परस्परोत्पीडनसंहतास्तैः ॥
चन्द्रिकाटीका (मणिरामः): समुद्धृतेति ॥ समुद्धृतं निष्कासितमशेषं सम्पूर्णं मृणालजालकं विससमूहो यस्मात् तत् तथोक्तं विपन्नमीनं समापन्नमीनं । द्रुताः पलायिता भीताश्च ते सारसाश्च यस्मात् तत् तथोक्तं सरः सरोवरं परस्परोत्पीडने संहतैः संलग्नैर्गजैः सान्द्रो निविडो विमर्दः सङ्ग्रामः कर्दम: पङ्कश्च यस्मिन् तत् तथा । यद्वा सान्द्रो निविडो विमर्देन सङ्ग्रामेण कर्दमः पङ्को यस्मिन् तत् तथाभूतमित्यर्थः ॥

Verse 20
रविप्रभोद्भिन्नशिरोमणिप्रभो विलोलजिह्वाद्वयलीढमारुतः । विषाग्निसूर्यातपतापितः फणी न हन्ति मण्डूककुलं तृषाकुलः ॥
Metre: वंशस्थम्
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): रवीति ॥ फणी सपा मण्डूककुलं मण्डूकानां कुलं वंशतस्तं न हन्ति। किंभूतः फणी — रवेः सूर्यस्य प्रभा कान्तिस्तयोद्भिन्ना उत्प्राबल्येन भिन्ना भेदं प्राप्ता शिरोमणिप्रभा शिरस्थमणिप्रभा यस्य स तथा । पुनः किं भूतः — विलोलं चपलञ्च तज्जिह्वाद्वयं च विलोलजिह्वाद्वयं तेन लीढः आस्वादितो मारुतो वायुर्येन सः। पुनः किंभूतः — विषवत्तीव्रोऽग्निर्बहूष्णो योऽसौ सूर्यातपस्तेन तापितः । पुनः किंभूतः — तृषा तृष्णयाकुलो व्याप्तः । अनेनातिघर्माधिक्यं सुचितम् ॥
चन्द्रिकाटीका (मणिरामः): रवीति ॥ रविप्रभया सूर्यकान्त्योद्भिन्ना निर्गता शिरोमणेर्मूर्धन्यमणेः प्रभा कान्तिर्यस्य स तथोक्तः । विलोलेन चञ्चलेन जिह्वाद्वयेन लीढ आलीढो मारुतः पवनो येन स तथोक्तः । विषाग्निसूर्यातपतापितो विषं गरलमग्निर्दावानलः सूर्यातप उष्णं तैस्तापितोऽत एव तृषाकुलः फणी सर्पो मण्डूककुलं भेकसमूहं न हन्ति न मारयतीत्यर्थः ॥

Showing 11 to 20 of 158 verses