दमनकोऽपि तम्प्रणम्य संजीवक-शब्दानुषरी प्रतस्थे ।
अथ दमनके गते भय-व्याकुल-मनाः पिङ्गलकश्चिन्तयामास-अहो न शोभनं कृतं मया । यत्तस्य विश्वासं गत्वात्माभिप्रायो निवेदितः । कदाचिद्दमनकोऽयमुभय-वेतनो भूत्वा ममोपरि दुष्ट-बुद्धिः स्याद्भ्रष्टाधिकारत्वात् । उक्तं च—
ये भवन्ति महीपस्य सम्मानित-विमानिताः । यतन्ते तस्य नाशाय कुलीना अपि सर्वदा ॥
Metre: अनुष्टुप्
तत्तावदस्य चिकीर्षितं वेत्तुमन्यत्स्थानान्तरं गत्वा प्रतिपालयामि । कदाचिद्दमनकस्तमादाय मां व्यापादयितुमिच्छति । उक्तं च—
न बध्यन्ते ह्यविश्वस्ता बलिभिर्दुर्बला अपि । विश्वस्तास्त्वेव बध्यन्ते बलवन्तोऽपि दुर्बलैः ॥
Metre: अनुष्टुप्
बृहस्पतेरपि प्राज्ञो न विश्वासे व्रजेन्नरः । य इच्छेदात्मनो वृद्धिमायुष्यं च सुखानि च ॥
Metre: अनुष्टुप्
शपथैः सन्धितस्यापि न विश्वासे व्रजेद्रिपोः । राज्य-लाभोद्यतो वृत्रः शक्रेण शपथैर्हतः ॥
Metre: अनुष्टुप्
न विश्वासं विना शत्रुर्देवानामपि सिद्ध्यति । विश्वासात्त्रिदशेन्द्रेण दितेर्गर्भो विदारितः ॥
Metre: अनुष्टुप्
एवं सम्प्रधार्य स्थानान्तरं गत्वा दमनक-मार्गमवलोकयन्नेकाकी तस्थौ । दमनकोऽपि सञ्जीवक-सकाशं गत्वा वृषभोऽयमिति परिज्ञाय हृष्ट-मना व्यचिन्तयत्-अहो शोभनमापतितम् । अनेनैतस्य सन्धि-विग्रह-द्वारेण मम पिङ्गलको वश्यो भविष्यतीति । उक्तं च—
न कौलीन्यान्न सौहार्दान्नृपो वाक्ये प्रवर्तते । मन्त्रिणां वावदभ्येति व्यसनं शोकमेव च ॥
Metre: अनुष्टुप्