पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Enable Parallel


Showing 221 to 230 of 2815 verses
दमनकोऽपि तम्प्रणम्य संजीवक-शब्दानुषरी प्रतस्थे ।

अथ दमनके गते भय-व्याकुल-मनाः पिङ्गलकश्चिन्तयामास-अहो न शोभनं कृतं मया । यत्तस्य विश्वासं गत्वात्माभिप्रायो निवेदितः । कदाचिद्दमनकोऽयमुभय-वेतनो भूत्वा ममोपरि दुष्ट-बुद्धिः स्याद्भ्रष्टाधिकारत्वात् । उक्तं च—

Verse 122
ये भवन्ति महीपस्य सम्मानित-विमानिताः । यतन्ते तस्य नाशाय कुलीना अपि सर्वदा ॥
Metre: अनुष्टुप्

तत्तावदस्य चिकीर्षितं वेत्तुमन्यत्स्थानान्तरं गत्वा प्रतिपालयामि । कदाचिद्दमनकस्तमादाय मां व्यापादयितुमिच्छति । उक्तं च—

Verse 123
न बध्यन्ते ह्यविश्वस्ता बलिभिर्दुर्बला अपि । विश्वस्तास्त्वेव बध्यन्ते बलवन्तोऽपि दुर्बलैः ॥
Metre: अनुष्टुप्

Verse 124
बृहस्पतेरपि प्राज्ञो न विश्वासे व्रजेन्नरः । य इच्छेदात्मनो वृद्धिमायुष्यं च सुखानि च ॥
Metre: अनुष्टुप्

Verse 125
शपथैः सन्धितस्यापि न विश्वासे व्रजेद्रिपोः । राज्य-लाभोद्यतो वृत्रः शक्रेण शपथैर्हतः ॥
Metre: अनुष्टुप्

Verse 126
न विश्वासं विना शत्रुर्देवानामपि सिद्ध्यति । विश्वासात्त्रिदशेन्द्रेण दितेर्गर्भो विदारितः ॥
Metre: अनुष्टुप्

एवं सम्प्रधार्य स्थानान्तरं गत्वा दमनक-मार्गमवलोकयन्नेकाकी तस्थौ । दमनकोऽपि सञ्जीवक-सकाशं गत्वा वृषभोऽयमिति परिज्ञाय हृष्ट-मना व्यचिन्तयत्-अहो शोभनमापतितम् । अनेनैतस्य सन्धि-विग्रह-द्वारेण मम पिङ्गलको वश्यो भविष्यतीति । उक्तं च—

Verse 127
न कौलीन्यान्न सौहार्दान्नृपो वाक्ये प्रवर्तते । मन्त्रिणां वावदभ्येति व्यसनं शोकमेव च ॥
Metre: अनुष्टुप्

Showing 221 to 230 of 2815 verses