पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Enable Parallel


Showing 201 to 210 of 2815 verses
अपि च—

Verse 116
अन्य-प्रतापमासाद्य यो दृढत्वं न गच्छति । जतुजाभरणस्येव रूपेणापि हि तस्य किम् ॥
Metre: अनुष्टुप्

तदेवं ज्ञात्वा स्वामिना धैर्यावष्टम्भः कार्यः । न शब्द-मात्राद्भेतव्यम् । अपि च—

Verse 117
पूर्वमेव मया ज्ञातं पूर्णमेतद्धि मेदसा । अनुप्रविश्य विज्ञातं यावच्चर्म च दारु च ॥
Metre: अनुष्टुप्

पिङ्गलक आह— कथमेतत् ।

सोऽब्रवीत्—

कथा २ शृगाल-दुन्दुभि-कथा

कश्चिद्गोमायुर्नाम शृगालः क्षुत्क्षाम-कण्ठः इतस्ततः परिभ्रमन्वने सैन्य-द्वय-संग्राम-भूमिमपश्यत् । तस्यां च दुन्दुभेः पतितस्य वायु-वशाद्वल्ली-शाखाग्रैर्हन्यमानस्य शब्दमशृणोत् । अथ क्षुभित-हृदयश्चिन्तयामास अहो विनष्टोऽस्मि । तद्यावन्नास्य प्रोच्चारित-शब्दस्य दृष्टि-गोचरे गच्छामि तावदन्यतो व्रजामि । अथवा नैतद्युज्यते सहसैव ।

Verse 118
भये वा यदि वा हर्षे सम्प्राप्ते यो विमर्शयेत् । कृत्यं न कुरुते वेगान्न स सन्तापमाप्नुयात् ॥
Metre: अनुष्टुप्

तत्तावज्जानामि कस्यायं शब्दः । धैर्यमालम्ब्य विमर्शयन्यावन्मन्दं मन्दं गच्छति तावद्दुन्दुभिमपश्यत् । स च तं परिज्ञाय समीपं गत्वा स्वयमेव कौतुकादताडयत् । भूयश्च हर्षादचिन्तयत्-अहो चिरादेतदस्माकं महोद्भोजनमापतितम् । तन्नूनं मांस-मेदोऽसृग्भिः परिपूरितं भविष्यति । ततः परुष-चर्मावगुण्ठितं तत्कथमपि विदार्यैकदेशे छिद्रं कृत्वा संहृष्ट-मना मध्ये प्रविष्टः । परं चर्म-विदारणतो दंष्ट्राभङ्गः समजनि । अथ निराशीभूतस्तद्-दारु-शेषमवलोक्य श्लोकमेनमपठत्पूर्वमेव मया ज्ञातमिति । अतो न शब्द-मात्राद्भेतव्यम् ।

Showing 201 to 210 of 2815 verses