पिङ्गलक आह— भोः पश्यायं मम सर्वोऽपि परिग्रहो भय-व्याकुलित-मनाः पलायितुमिच्छति । तत्कथमहं धैर्यादवष्टम्भं करोमि ।
सोऽब्रवीत्- स्वामिन्नैषामेष दोषः । यतः स्वामि-सदृशा एवं भवन्ति भृत्याः । उक्तं च—
अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश्च नारी च । पुरुष-विशेषं प्राप्ता भवन्त्ययोग्याश्च योग्याश्च ॥
Metre: आर्या (१२, १८, १२, १५)
तत्-पौरुषावष्टं कृत्वा त्वं तावदत्रैव प्रतिपालय यावदहमेतच्छब्द-स्वरूपं ज्ञात्वागच्छामि । ततः पश्चाद्यथोचितं कार्यमिति ।
पिङ्गलक आह— किं तत्र भवान्गन्तुमुत्सहते ।
स आह— किं स्वाम्य्-आदेशात्सद्-भृत्य कृत्याकृत्यमस्ति । उक्तं च—
स्वाम्य्-आदेशात्सुभृत्यस्य न भोः सञ्जायते क्वचित् । प्रविशेन्मुखमाहेयं दुस्तरं वा महार्णवम् ॥
Metre: अनुष्टुप्
स्वाम्य्-आदिष्टस्तु यो भृत्यः समं विषममेव च । मन्यते न स सन्धार्यो भूभुजा भूतिमिच्छता ॥
Metre: अनुष्टुप्
पिङ्गलक आह— भद्रं, यद्येवं तद्गच्छ । शिवास्ते पन्थानः सन्तु इति ।