कौशेयं कृमिजं सुवर्णमुपलाद्दुर्वापि गोरोमतः पङ्कात्तामरसं शशाङ्क उदधेरिन्दीवरं गोमयात् । काष्ठादग्निरहेः फणादपि मणिर्गो-पित्ततो रोचना प्राकाश्यं स्व-गुणोदयेन गुणिनो गच्छन्ति किं जन्मना ॥
Metre: शार्दूलविक्रीडितम्
मूषिका गृह-जातापि हन्तव्या स्वाप-कारिणी । भक्ष्य-प्रदानैर्जारो हितकृत्प्राप्यते जनैः ॥
Metre: अनुष्टुप्
एरण्ड-भिण्डार्क-नलैः प्रभूतैरपि सञ्चितैः । दारु-कृत्यं यथा नास्ति तथैवाज्ञैः प्रयोजनम् ॥
Metre: अनुष्टुप्
किं भक्तेनासमर्थेन किं शक्तेर्नापकारिणा । भक्तं शक्तं च मां राजन्नावज्ञातुं त्वमर्हसि ॥
Metre: अनुष्टुप्
पिङ्गलक आह— भवत्वेवं तावत् । असमर्थः समर्थो वा चिरन्तनस्त्वमस्माकं मन्त्रि-पुत्रः । तद्विश्रब्धं ब्रूहि यत्किञ्चिद्वक्तुकामः ।
दमनक आह— देव जिज्ञाप्यं किञ्चिदस्ति ।
पिङ्गलक आह— तन्निवेदयाभिप्रेतम् ।
अपि स्वल्पतरं कार्यं यद्भवेत्पृथिवी-पतेः । तन्न वाच्यं सभा-मध्ये प्रोवाचेदं बृहस्पतिः ॥
Metre: अनुष्टुप्
तदैकान्तिके मद्-विज्ञाप्यमाकर्णयन्तु देव-पादाः । यतः—