यस्मिन्कृत्यं समावेश्य निर्विशङ्केन चेतसा । आस्यते सेवकः स स्यात्कलत्रमिव चापरम् ॥
Metre: अनुष्टुप्
योऽनाहूतः समभ्येति द्वारि तिष्ठति सर्वदा । पृष्ठः सत्यं मितं ब्रूते स भृत्योऽर्हो महीभुजाम् ॥
Metre: अनुष्टुप्
अनादिष्टोऽपि भूपस्य दृष्ट्वा हानिकरं च यः । यतते तस्य नाशाय स भृत्योऽर्हो महीभुजाम् ॥
Metre: अनुष्टुप्
ताडितोऽपि दुरुक्तोऽपि दण्डितोऽपि महीभुजा । यो न चिन्तयते पापं स भृत्योऽर्हो महीभुजाम् ॥
Metre: अनुष्टुप्
न गर्वं कुरुते माने नापमाने च तप्यते । स्वाकारं रक्षयेद्यस्तु स भृत्योऽर्हो महीभुजाम् ॥
Metre: अनुष्टुप्
न क्षुधा पीड्यते यस्तु निद्रया न कदाचन । न च शीतातपाद्यैश्च स भृत्योऽर्हो महीभुजाम् ॥
Metre: अनुष्टुप्
श्रुत्वा सांग्रामिकीं वार्तां भविष्यां स्वामिनं प्रति । प्रसन्नास्यो भवेद्यस्तु स भृत्योऽर्हो महीभुजाम् ॥
Metre: अनुष्टुप्
सीमा वृद्धिं समायाति शुक्ल-पक्ष इवोडुराट् । नियोग-संस्थिते यस्मिन्स भृत्योऽर्हो महीभुजाम् ॥
Metre: अनुष्टुप्
सीमा संकोचमायाति वह्नौ चर्म इवाहितम् । स्थिते यस्मिन्स तु त्याज्यो भृत्यो राज्यं समीहता ॥
Metre: अनुष्टुप्
तथा शृगालोऽयमिति मन्यमानेन ममोपरि स्वामिना यद्यवज्ञा क्रियते तदप्ययुक्तम् । उक्तं च यतः—