रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Disable Parallel


Showing 1501 to 1510 of 1569 verses
Verse 42
मणौ महानील इति प्रभावादल्पप्रमाणेऽपि यथा न मिथ्या । शब्दो महाराज इति प्रतीतस्तथैव तस्मिन्युयुजेऽर्भकेऽपि ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): मणाविति॥ अल्पप्रमाणेऽपि मणाविन्द्रनीले प्रभावात्तेजिष्ठत्वाद्धेतोर्महानील इति शब्दो यथा मिथ्या निरर्थको न तथैवार्भकेऽपि शिशावपि तस्मिन् सुदर्शने प्रतीतः प्रसिद्धो महाराज इति शब्दो न मिथ्या युयुजे ॥

Verse 43
पर्यन्तसंचारितचामरस्य कपोललोलोभयकाकपक्षात् । तस्याननादुञ्चरितो विवादश्चस्खाल वेलास्वपि नार्णवानाम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): पर्यन्तेति॥ पर्यन्तयोः पार्श्वयोः संचारिते यस्य तस्य बालस्य संबन्धिनः कपोलयोर्लोलावुभौ काकपक्षौ यस्य तस्मादाननादुञ्चरितो विवादो वचनमर्णवानां वेलास्वपि न चस्खाल। शिशोरपि तस्याज्ञाभङ्गो नासीवित्यर्थः। चपलसंसर्गेऽपि महान्तो न चलन्तीति ध्वनिः। उभयकाकपक्षादित्यत्र `वृत्तिविषये उभयपुत्र ` इतिवत् `उभ`शब्दस्थाने `उभय`शब्दप्रयोगः` इत्युक्तं प्राक् ॥

Verse 44
निर्वृत्तजाम्बूनदपट्टशोभे न्यस्तं ललाटे तिलकं दधानः । तेनैव शून्यान्यरिसुन्दरीणां मुखानि स स्मेरमुखश्चकार ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): निर्वृत्तेति॥ निर्वृत्ता जाम्बूनदपट्टशोभा यस्य तस्मिन्कृतकनकपट्टशोभे ललाटे न्यस्तं तिलकं दधानः स्मेरमुखः स्मितमुखः स राजा। अरिसुन्दरीणां मुखानि तेनैव तिलकेनैव शून्यानि चकार। अखिलमपि शत्रुवर्गमवधीदिति भावः ॥

Verse 45
शिरीषपुष्पाधिकसौकुमार्यः खेदं स यायादपि भूषणेन । नितान्तगुर्वीमपि सोऽनुभावाद्धुरं धरित्र्या बिभरांबभूव ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): शिरीषेति॥ शिरीषपुषअपाधिकसौकुमार्यः। कोमलाङ्ग इत्यर्थः। अत एव स राजा भूषणेनापि खेदं श्रमं यायाद्गच्छेत्। एवंभूतः स नितान्तगुर्वीमपि धरित्र्या धुरं भुवो भारमनुभावात् सामर्थ्यात्। बिभरांबभूव बभार। `भीह्वीभृहुवां श्लुवञ्च` (पा.3।1।39) इति विकल्पादाम्प्रत्ययः ॥

Verse 46
न्यस्ताक्षरामक्षरभूमिकायां कार्त्स्न्येन गृह्णाति लिपिं न यावत् । सर्वाणि तावच्छ्रुतवृद्धयोगात्फलान्युपायुङ्क्त स दण्डनीतेः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): न्यस्तेति॥ अक्षरभूमिकायामक्षरलेखनस्थले न्यस्ताक्षरां रचिताक्षरपङ्क्तिरेखान्यासां लिपिं पञ्चाशद्वर्णात्मिकां कार्त्स्न्येन यावन्न गृह्णाति स सुदर्शनस्तावच्छ्रुतवृद्धयोगाद्विद्यावृद्धसंसर्गात्सर्वाणि दण्डनीतेर्दण्डशास्त्रस्य फलान्युपायुङ्क्तान्वभूत्॥ प्रागेव बद्धफलस्य तस्य पश्चादभ्यस्यामानं शास्त्रं संवादार्थमिवाभवदित्यर्थः ॥

Verse 47
उरस्यपर्याप्तनिवेशभागा प्रौढीभविष्यन्तमुदीक्षमाणा । संजातलज्जेव तमातपत्रच्छायाछलेनोपजुगूह लक्ष्मीः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): उरसीति॥ उरस्यपर्याप्तो निवेशभागो निवासावकाशो यस्याः सा। अत एव प्रौढीभविष्यन्तं वर्धिषथ्यमाणमुदीक्षमाणा प्रौढवपुष्मान्भविष्यतीति प्रतीक्षमाणा लक्ष्मीः संजातलज्जेव साक्षादालिङ्गितुं लज्जितेव तं सुदर्शनम्। आतपत्रच्छायाछलेनोपजुगूहालिलिङ्ग। छत्रच्छाया लक्ष्मीरूपेति प्रसिद्धिः। प्रौढाङ्गनायाः प्रौढपुरुषालाभे लज्जा भवतीति ध्वनिः ॥

Verse 48
अनश्नुवानेन युगोपमानमबद्धमौर्वीकिणलाञ्छनेन । अस्पृष्टखङ्गत्सरुणापि चासीद्रक्षावती तस्य भुजेन भूमिः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): अनश्नुवानेनेति॥ युगोपमानं युगसादृश्यमनश्नुवानेनाप्राप्नुवता। अबद्धं मौर्वीकिणो ज्याघातग्रन्थिरेव लाञ्छनं यस्य तेन। अस्पृष्टः खङ्गत्सरुः खङ्गमुष्टिर्येन तेन। `त्सरुः खङ्गादिमुष्टौ स्यात्` इत्यमरः। एवंविधेनापि च तस्य सुदर्शनस्य भुजेन भूमि रक्षावत्यासीत्। शिशोरपि तस्य तेजस्तादृगित्यर्थः ॥

Verse 49
न केवलं गच्छति तस्य काले ययुः शरीरावयवा विवृद्धिम् । वंश्या गुणाः खल्वपि लोककान्ताः प्रारम्भसूक्ष्माः प्रथिमानमापुः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): नेति॥ काले गच्छति सति तस्य केवलं शरीरावयवा एव विवृद्धिं प्रसारं न ययुः। किंतु वंशे भवा वंश्या लोककान्ता जनप्रियाः प्रारम्भ आदौ सूक्ष्मास्तस्य गुणाः शौर्यौदार्यादयोऽपि प्रथिमानं पृथुत्वमापुः खलु ॥

Verse 50
स पूर्वजन्मान्तरदृष्टपाराः स्मरन्निवाक्लेशकरो गुरूणाम् । तिस्रस्त्रिवर्गाधिगमस्य मूलं जग्राह विद्याः प्रकृतीश्च पित्र्याः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ स सुदर्शनः पूर्वस्मिञ्जन्मान्तरे जन्मविशेषे दृष्टपाराः स्मरन्निव गुरूणामक्लेशकरः सन्। त्रयाणां धर्मार्थकामानां वर्गस्त्रिवर्गः। तस्याधिगमस्य प्राप्तेर्मूलं तिस्रो विद्यास्त्रयी-वार्ता-दण्डनीतिः पित्र्याः पितृसंबन्धिनीः प्रकृतीः प्रजाश्च जग्राह स्वायत्तीचकार। अत्र कौटिल्यः-`धर्माधर्मौ त्रय्यामर्थानर्थौ वार्तायां नयानयौ दण्डनीत्याम्` इति। अत्र दण्डनीतिर्नयद्वारा काममूलमिति द्रष्टव्यम्। आन्वीक्षिक्या अनुपादानं त्रय्यन्तर्भावपक्षमाश्रित्य। यथाह कामन्दकः- `त्रयी वार्ता दण्डनीतिस्तिस्रो विद्या मनोर्मताः। त्रय्या एव विभागोऽयं येन सान्वीक्षिकी मता ॥` इति ॥

Verse 51
व्यूह्य स्थितः किंचिदिवोत्तरार्धमुन्नद्धचूडोऽञ्चितसव्यजानुः । आकर्णमाकृष्टसबाणधन्वा व्यरोचतास्त्रे स विनीयमानः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): व्यूह्येति॥ सः। अस्त्रे धनुर्विद्यायां विनीयमानः शिक्ष्यमाणोऽत एव, उत्तरार्धं पूर्वकाय किंचिदिव व्यूह्य विस्तार्य स्थितः। उन्नद्धचूड ऊर्ध्वमुत्कृष्य बद्धकेशः। अ ञअचतमाकुञ्चितं सव्यं जानु यस्य स आकर्णमाकृष्टं सबाणं धनुर्धन्व वा येन स तथोक्तः सन्। व्यरोचताशोभत ॥

Showing 1501 to 1510 of 1569 verses