रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Disable Parallel


Showing 1481 to 1490 of 1569 verses
Verse 22
तस्मिन्गते द्यां सुकृतोपलब्धां तत्संभवं शङ्खणमर्णवान्ता । उत्खातशत्रुं वसुधोपतस्थे रत्नोपहारैरुदितैः खनिभ्यः ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): तस्मिन्निति॥ तस्मिन्वज्रणाभे सुकृतोपलब्धां सुधर्मार्जितां द्यां स्वर्गं गते सति। उत्खातशत्रुमुद्धृतशत्रुं शङ्खणं नाम तत्संभवं तदात्मजमर्णवान्ता वसुधा खनिभ्य आकरेभ्य उदितरुत्पन्नै रत्नोपहारैरुत्कृष्टवस्तुसमर्पणैः। उपतस्थे सिषेवे। `जातौ जातौ यदुत्कृष्टं तद्रत्नमभिधीयते` इति भरत-विश्वौ ॥

Verse 23
तस्यावसाने हरिदश्वधामा पित्र्यं प्रपेदे पदमश्विरूपः । वेलातटेषूषितसैनिकाश्वं पुराविदो यं व्युषिताश्वमाहुः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तस्येति॥ तस्य शङ्खणस्यावसानेऽन्ते हरिदश्वधामा सूर्यतेजाः। अश्विनोरिव रूपस्येत्यश्विरूपोऽतिसुन्दरः। तत्पुत्र इति शेषः। `पित्र्यम्` इति संबन्धिपदसामर्थ्यात्। पित्र्यं पदं प्रपेदे। वालातटेषूषिता निविष्टाः सैनिका अश्वाश्च यस्य तम्। अन्वर्थनामानमित्यर्थः। यं पुत्रं पुराविदो वृद्धा व्युषिताश्वमाहुः ॥

Verse 24
आराध्य विश्वेश्वरमीश्वरेण तेन क्षितेर्विश्वसहो विजज्ञे । पातुं सहो विशअवसखः समग्रां विशअवंभरामात्मजमूर्तिरात्मा ॥
सञ्जीविनीटीका (मल्लिनाथः): आराध्येति॥ तेन क्षितेरीश्वरेण व्यषिताश्वेन विश्वेश्वरं काशीपतिमाराध्योपास्य विश्वसहो नाम विश्वसखः समग्रां सर्वां विश्वंभरां भुवं पातुं रक्षितुं सहत इति सहः क्षमः। पचाद्यच्। आत्मजमूर्तिः पुत्ररूप्यात्मा स्वयमेव। `आत्मा वै पुत्रनामासि`(आश्व.सू.1।15) इति श्रुतेः। विजज्ञे सुषुवे। विपूर्वो जनिर्गर्भविमोचने वर्तते। यथाह भगवान्पाणिनिः-`समां समां विजायते` इति ॥

Verse 25
अंशे हिरण्याक्षरिपोः स जाते हिरण्यनाभे तनये नयज्ञः । द्विषामसह्यः सुतरां तरूणां हिरण्यरेता इव सानिलोऽभूत् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): अंश इति॥ नयज्ञो नीतिज्ञः स विश्वसहः। हिरण्याक्षरिपीर्विष्णोरंशे। हिरण्यनाभे तन्नाम्नि तनये जाते सति। तरूणां सानिलो हिरण्यरेता हुतभुगिव। द्विषां सुतरामसह्योऽभूत् ॥

Verse 26
पिता पितॄणामनृणस्तमन्ते वयस्यनन्तानि सुखानि लिप्सुः । राजानमाजानुविलम्बिबाहुं कृत्वा कृती वल्कलवान्बभूव ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): पितेति॥ पितॄणामनृणः। निवृत्तपितॄण इत्यर्थः। `प्रजया पितृभ्यः` इति श्रुतेः। अत एव कृती। कृतकृत्य इत्यर्थः। पिता विश्वसहोऽन्ते वयसि बाधकेऽनन्तान्यविनाशानि सुखानि लिप्सुः। मुमुक्षुरित्यर्थः। आजानुविलम्बिबाहुं दीर्घबाहुम्। भाग्यसंपन्‌नमिति भावः। तं हिरण्यनाभं राजानं कृत्वा बल्कलवान्बभूव। वनं गत इत्यर्थः ॥

Verse 27
कौसल्य इत्युत्तरकोसलानां पत्युः पतङ्गान्वयभूषणस्य । तस्यौरसः सोमसुतः सुतोऽभून्नेत्रोत्सवः सोम इव द्वितीयः ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): कौसल्य इति॥ उत्तरकोसलानां पत्युः पतङ्गन्वयभूषणस्य सूर्यशाभरणस्य सोमसुतः सोमं सुतवतः। यज्वन इत्यर्थःथ। `सोमे सुञः` (पा.3।2।90) इति क्विप्। तस्य हिरण्यनाभस्य द्वितीयः सोमश्चन्द्र इव। नेत्रोत्सवो नयनानन्दकरः कौसल्य इति प्रसिद्ध औरसो धर्मपत्नीजः सुतोऽभूत् ॥

Verse 28
यशोभिराब्रह्मसभं प्रकाशः स ब्रह्मभूयं गतिमाजगाम । ब्रह्मिष्ठमाधाय निजेऽधिकारे ब्रह्मिष्ठमेव स्वतनुप्रसूतम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): यशोभिरिति॥ आ ब्रह्मसभाया आब्रह्मसभं ब्रह्मसदनपर्यन्तम्। अभिविधावव्ययीभावः। यशोभिः। प्रकाशः प्रसिद्धः, स कौसल्योऽतिशयेन ब्रह्मवन्तं ब्रह्मिष्ठम्। ब्रह्मविदमित्यर्थः। `ब्रह्म`शब्दान्मतुबन्तादिष्ठन्प्रत्यये `विन्मतोर्लुक्` (पा.5।3।65) इति मतुपो लुक्। `नस्तद्धिते` (पा.6।4।144) इति टिलोपः। ब्रह्मिष्ठं ब्रह्मिष्ठाख्यं स्वतनुप्रसूतं स्वात्मजमेव निजे स्वकीयेऽधिकारे प्रजापालनकृत्ये। आधाय निधाय। ब्रह्मणो भावो ब्रह्मभूयं ब्रह्मत्वं तदेव गतिस्तामाजगाम। मुक्तोऽभूदित्यर्थः। `स्याद्द्ब्रह्मभूयं ब्रह्मत्वम्` इत्यमरः। भुवो भावे क्यप् ॥

Verse 29
तस्मिन्कुलापीडनिभे विपीडं सम्यङ्महीं शासति शासनाङ्काम् । प्रजाश्चिरं सुप्रजसि प्रजेशे ननन्दुरानन्दजलाविलाक्ष्यः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तस्मिन्निति॥ कुलापीडनिभे कुलशेखरतुल्ये। `वैकक्षकं तु तत्। यत्तिर्यक्क्षिप्तमुरसि शिखास्वापीडशेखरौ` इत्यमरः (अ.को.2|6|137)। सुप्रजसि सत्संतानवति। `नित्यमसिच्प्रजामेधयोः`(5।4।122) इत्यसिच्प्रत्ययः। तस्मिन् प्रजेशे प्रजेश्वरे ब्रह्मिष्ठे शासनाङ्कां शासनचिह्नां महीं विपीडं निर्बाधं यथा तथा सम्यक्शासति सति। आनन्दजलाविलाक्ष्य आनन्दबाष्पाकुलनेत्राः प्रजाश्चिरं ननन्दुः ॥

Verse 30
पात्रीकृतात्मा गुरुसेवनेन स्पष्टाकृतिः पत्ररथेन्द्रकेतोः । तं पुत्रिणां पुष्करपत्रनेत्रः पुत्रः समारोपयदग्नसंख्याम् ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): पात्रीकृतेति॥ गुरुसेवनेन पित्रादिशुश्रूषया पात्रीकृतात्मा योग्यीकृतात्मा। `योग्यभाजनयोः पात्रम्` इत्यमरः (अ.को.3|3|187)। पत्ररथेन्द्रकेतोर्गरुडध्वजस्य स्पष्टाकृतिः स्पष्टवपुः। तत्सरूप इत्यर्थः। `आकृतिः तथिता रूपे सामान्यवपुषोरपि` इति विश्वः। पुष्करपत्रनेत्रः पद्मदलाक्षः पुत्रः पुत्राख्यो राजा। यद्वा, -`पुत्र` शब्द आवर्तनीयः। पुत्रः पुत्राख्यः पुत्रः सुतः। तं ब्रह्मिष्ठं पुत्रिणामग्रसंख्यां समारोपयत्। अग्रगण्यं चकारेत्यर्थः ॥

Verse 31
वंशस्थितिं वंशकरेण तेन संभाव्य भावी स सखा मघोनः । उपस्पृशन्स्पर्शनिवृत्तलौल्यस्त्रिपुष्करेषु त्रिदशत्वमाप ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): वंशेति॥ स्पृश्यन्त इति स्पर्शा विषयाः। तेभ्यो निवृत्तलौल्यो निवृत्ततृष्णः। अत एव मघोन इन्द्रस्य सखा मित्रं भावी भविष्यन्। स्वर्गं जिगमिषुरित्यर्थः। स ब्रह्मिष्णो वंशकरेण वंशप्रवर्तकेन तेन पुत्रेण वंशस्थितिं कुलप्रतिष्ठां संभाव्य संपाद्य। त्रिषु पुष्करेषु तीर्थविशेषेषु। `दिक्संख्ये संज्ञायाम्` (पा.2।1।57) इति समासः। उपस्पृशन् स्नानं कुर्वन्। त्रिदशत्वं देवभूयमाप ॥

Showing 1481 to 1490 of 1569 verses