रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 1471 to 1480 of 1569 verses
Verse 12
पूर्वस्तयोरात्मसमे चिरोढामात्मोद्भवे वर्णचतुष्टयस्य । धुरं निधायैकनिधिर्गुणानां जगाम यज्वा यजमानलोकम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): पूर्व इति॥ गुणानामेकनिधिर्यज्वा विधिवदिष्टवांस्तयोः पितृ-पुत्रयोर्मध्ये पूर्वः पिता क्षेमधन्वाऽऽत्मसमे स्वतुल्य आत्मोद्भवे पुत्रे देवानीके चिरोढां चिरं धृतां वर्णचतुष्टडयस्य धुरं रक्षाभारं निधाय यजमानलोकं यष्टृलोकं नाकं जगाम ॥

Verse 13
वशी सुतस्तस्य वशंवदत्वात्स्वेषामिवासीद्द्विषतामपीष्टः । सकृद्विविग्नानपि हि प्रयुक्तं माधुर्यमीष्टे हरिणान्ग्रहीतुम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): वशीति॥ तस्य देवानीकस्य वशी समर्थः सुतोऽहीनगुर्नामेति वक्ष्यमाणनामकः। वशं वशकरं मधुरं वदतीति वशंवदः। `प्रियवशे वदः स्वच्` (पा.3।2।38) इति खच्प्रत्ययः। तस्य भावस्तत्त्वम्। तस्मादिष्टवादित्वात्स्वेषामिव द्विषतामपीष्टः प्रिय आसीत्। अर्थादेवानीकनिर्धारणं लभ्यते। तथा हि-प्रयुक्तमुञ्चारितं माधुर्यं सकृदेकवारं विविग्नान् भीतानपि हरिणान्ग्रहीतुं वशीकर्तुमीष्टे शक्नोति ॥

Verse 14
अहीनगुर्नाम स गां समग्रामहीनबाहुद्रविणः शशास । यो हीनसंसर्गपराङ्मुखत्वाद्युवाप्यनर्थैर्व्यसनैर्विहीनः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): अहीनगुरिति॥ अहीनबाहुद्रविणः समग्रभुजपराक्रमः। `द्रविणं काञ्चनं वित्तं द्रविणं च पराक्रमः` इति विश्वः। हीनसंसर्गपराङ्मुखन्वान्नीचसंसर्गविमुखत्वाद्धेतोर्युवाऽप्यनर्थैरनर्थकरैर्व्यसनैः पानद्यूतादिभिर्विहीनो रहितो योऽहीनगुर्नाम स पूर्वोक्तो देवानीकसुतः समग्रां सर्वां गां भुवं शशास ॥

Verse 15
गुरोः स चानन्तरमन्तरज्ञः पुंसां पुमानाद्य इवावतीर्णः । उपक्रमैरस्खलितैश्चतुर्भिश्चतुर्दिगीशश्चतुरो बभूव ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): गुरोरिति॥ पुंसामन्तरज्ञो विशेषज्ञश्चतुरो निपुणः सोऽहीनगुश्य गुरोः पितुरनन्तरम्। अवतीर्णो भुवं प्राप्त आद्यः पुमान् विष्णुरिव। अस्खलितैरप्रतिहतैश्चतुर्भिरुपक्रमैः सामाद्युपायैः। `सामादिभिरुपक्रमैः`(7।107) इति मनुः। चतुर्दिगीशश्चतसृणां दिशामीशो बभूव ॥

Verse 16
तस्मिन्प्रयाते परलोकयात्रां जेतर्यरीणां तनयं तदीयम् । उञ्चैः शिरस्त्वाज्जितपारियात्रं लक्ष्मीः सिषेवे किल पारियात्रम् ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): तस्मिन्निति॥ अरीणां जेतरि तस्मिन्नहीनगौ परलोकयात्रां प्रयाते प्राप्ते सति। उच्चैः शिरस्त्वादुन्नतशिरस्कत्वाज्जितः पारियात्रः कुलशैलविशेषो येन तं पारियात्रं पारेयात्राख्यं तदीयं तनयं लक्ष्मी राज्यलक्ष्मीः सिषेवे किल ॥

Verse 17
तस्याभवत्सूनुरुदारशीलः शिलः शिलापट्टविशालवक्षाः । जितारिपक्षोऽपि शिलीमुखैर्यः शालिनतामव्रजदीड्यमानः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तस्येति॥ थस्य पारियात्रस्य। उदारशीलो महावृत्तः। `शीलं स्वभावे सद्दृत्ते` इत्यमरः (अ.को.3|3|23)। शिलापट्टविशालवक्षाः शिलः शिलाख्यः सूनुरभवत्। यः सूनुः शिलीमुखैर्बाणैः। `अलिबाणौ शिलीमुखौ` इत्यमरः (अ.को.3|3|23)। जितारिपक्षोऽपीड्यमानः स्तूयमानः सन्। शालीनतामधृष्टतां लज्जामव्रजदगच्छत्। `स्यादधृष्टे तु शालीनः` इत्यमरः (अ.को.3|3|23)। `शालीनकौपीने अधृष्टाकार्ययोः` (पा.5।2।20) इति निपातः ॥

Verse 18
तमात्मसंपन्नमनिन्दितात्मा कृत्वा युवानं युवराजमेव । सुखानि सोऽभुङ्क्त सुखोपरोधि वृतं हि राज्ञामुपरुद्धवृत्तम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ अनिन्दितात्माऽगर्हितस्वभावः स पारियात्रः। आत्मसंपन्नं बुद्धिसंपन्नम्। `आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च` इत्युभयत्राप्यमरः। युवानं तं शिलं युवराजं कृत्वैव सुखान्यभुङ्क्त। न त्वकृत्वेत्येवकारार्थः। किमर्थं `युवराज`शब्दकरणमित्याशङ्क्यान्यथा सुखोपभोगो दुर्लभ इत्याह-सुखोपरोधीति। हि यस्माद्राज्ञां वृत्तं प्रजापालनादिरूपं सुखोपरोधि बहुलत्वात्सुखप्रतिबन्धकम्। अत एव, उपरुद्धवृत्तम्। उपरुद्धसदृशमित्यर्थः। उपरुद्धः कारादिबद्धः। उपरुद्धस्य स्वयमूढभारस्य च सुखं नास्तीति भावः ॥

Verse 19
तं रागबन्धिष्ववितृप्तमेव भोगेषु सौभाग्यविशेषभाग्यम् । विलासिनीनामरतिक्षमापि जरा वृथा मत्सरिणी जहार ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ रागं बध्नन्तीति रागबन्धिनः। रागप्रवर्तका इत्यर्थः। तेषु भोगेषु विषयेष्ववितृप्तमेव सन्तं किंच विलासिनीनां भोक्त्रीणां सौभाग्यविशेषेण सौन्दर्यातिशयेन हेतुना भोग्यं भोगार्हम्। `चजोः कु घिण्यतोः` (पा.7।3।52) इति कुत्वम्। तं पारियात्रं रतिक्षमा न भवतीत्यरतिक्षमापि। अत एव वृथा मत्सरिणी रतिक्षमासु। विलासिनीष्वित्यर्थः। जरा जहार वशीचकार ॥

Verse 20
उन्नाभ इत्युद्गतनामधेयस्तस्यायथार्थोन्नतनाभिरन्ध्रः । सुतोऽभवत्पङ्कजनाभकल्पः कृत्स्नस्य नाभिर्नृपमण्डलस्य ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): उन्नाभ इति॥ तस्य शिलाख्यस्य । उन्नाभ इत्युद्गतनामधेयः प्रसिद्धनामाऽयथार्थं यथा तथोन्नतं नाभिरन्ध्रं यस्य सः। गम्भीरनाभिरित्यर्थः। तदुक्तम्-`स्वरः सत्त्वं च नाभिश्च गम्भीर्यं त्रिषु शस्यते`। पङ्कजनाभकल्पो विष्णुसदृशः कृत्स्नास्य नृपमण्डलस्य नाभिः प्रधानम्। `नाभिः प्रधाने कस्तूरीमदेऽपि क्वचिदीरितः` इति विश्वः। सुतोऽभवत्। `अच्प्रत्यन्ववपूर्वात्सामलोम्नः` (पा.5।4।75) इत्यत्राजिति योगविभागादुवन्नाभ-वज्रनाभादयः सिद्धाः ॥

Verse 21
ततः परं वज्रधरप्रभावस्तदात्मजः संयति वज्रघोषः । बभूव वज्राकरभूषणायाः पतिः पृथिव्याः किल वज्रणाभः ॥
Metre: उपेन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): तत इति॥ ततः परं वज्रधरप्रभाव इन्द्रतेजाः संयति सङ्ग्रामे वज्रघोषोऽशनितुल्यध्वनिर्वज्रणाभो नाम तस्योन्नाभस्यात्मजो वज्राणां हीरकाणामाकराः खनय एव भूषणानि यस्यास्तस्याः पृथिव्याः पतिर्बभूव किल खलु। `वज्रं त्वस्त्री कुलिशशस्त्रयोः । मणिवेधे रत्नभेदेऽप्यशनावासनान्तरे ॥` इति केशवः ॥

Showing 1471 to 1480 of 1569 verses