रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 1461 to 1470 of 1569 verses
Verse 2
तेनोरुवीर्येण पिता प्रजायै कल्पिष्यमाणेन ननन्द यूना । सुवृष्टियोगादिव जीवलोकः सस्येन संपत्तिफलोन्मुखेन ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तेनेति॥ उरुवीर्येणातिपराक्रमेण। अत एव प्रजायै लोकरक्षणार्थं कल्पिष्यमाणेन तेन यूना निषधेन पिताऽतिथिः। सुवृष्टियोगात्संपत्तिफलोन्मुखेन पाकोन्मुखेन सस्येन जीवलोक इव। ननन्द जहर्ष ॥

Verse 3
शब्दादि निर्विश्य सुखं चिराय तस्मिन्प्रतिष्ठापितराजशब्दः । कौमुद्वतेयः कुमुदावदातैर्द्यामर्जितां कर्मभिरारुरोह ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): शब्दादीति॥ कुमुद्वत्या अपत्यं पुमान् कौमुद्वतेयोऽतिथिः शब्दादि शब्दस्पर्शादि सुखं सुखसाधनं विषयवर्गं निर्विश्योपभुज्य चिराय तस्मिन्निषधाख्ये पुत्रे प्रतिष्ठापितराजशब्दो दत्तराज्यः सन्। कुमुदावदातैर्निर्मलैः कर्मभिरश्वमेधादिभिरर्जितां संपादितां द्यां स्वर्गम्। आरुरोह ॥

Verse 4
पौत्रः कुशस्यापि कुशेशयाक्षः ससागरां सागरधीरचेताः । एकातपत्रां भुवमेकवीरः पुरार्गलादीर्घभुजो बुभोज ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): पौत्र इति॥ कुशेशयाक्षः शतपत्रलोचनः। `शतपत्रं कुशेशयम्` इत्यमरः (अ.को.1|10|40)। सागरधीरचेताः समुद्रगम्भीरचित्त एकवीरोऽसहायशूरः। पुरस्यार्गला कपाटविष्कम्भः। `तद्विष्कम्भोऽर्गलं न ना` इत्यमरः (अ.को.2|2|18)। तद्वद्दीर्घभुजः कुशस्य पौत्रो निषधोऽपि ससागरामेकातपत्रां भुवं बुभोज पालयामास। `भुजोऽनवने` (पा.1।3।66) इति नियमात् परस्मैपदम् ॥

Verse 5
तस्यानलौजास्तनयस्तदन्ते वंशश्रियं प्राप नलाभिधानः । यो नड्वलानीव गजः परेषां बलान्यमृद्गान्नलिनाभवक्त्रः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तस्येति॥ अनलौजा नलाभिधानो नलाख्यस्तस्य निषधस्य तनयस्तस्य निषधस्यान्तेऽवसाने वंशश्रियं राज्यलक्ष्मीं प्राप। नलिनाभवक्त्रो यो नलः। गजो नड्वलानि नडप्रायस्थलानीव। `नडशादाद् ड्वलच्` (पा.4।2।88) इति ड्वलच्प्रत्ययः। परेषां बलान्यमृद्गान्ममर्द ॥

Verse 6
नभश्चरैर्गीतयशाः स लेभे नभस्तलश्यामतनुं तनूजम् । ख्यातं नभःशब्दमयेन नाम्ना कान्तं नभोमासमिव प्रजानाम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): नभ इति॥ नभश्चरैर्गन्धर्वादिभिर्गीतयशाः स नलो नभस्तलश्यामतनुं नभःशब्दमयेन नाम्ना ख्यातम्। नभःशब्दसंज्ञकमित्यर्थः। नभोमासमिव श्रावणमासमिव। प्रजानां कान्तं प्रियं तनूजं पुत्रं लेभे ॥

Verse 7
तस्मै विसृज्योत्तरकोसलानां धर्मोत्तरस्तत्प्रभवे प्रभुत्वम् । मृगैरजयं जरसोपदिष्टमदेहबन्धाय पुनर्बबन्ध ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तस्मा इति॥ धर्मोत्तरो धर्मप्रधानः स लनः प्रभवे समर्थाय तस्मै नभसे तदुत्तरकोसलानां प्रभुत्वमाधिपत्यं विसृज्य दत्त्वा जरसा जरयोपदिष्टम्। वार्धके चिकीर्षितमित्यर्थः। मृगैरजर्यं तैः सह संगतम्। `अजर्यं संगतम्` (पा.3।1।105) इति निपातः। पुनरदेहबन्धाय पुनर्देहसंबन्धनिवृत्तये बबन्ध। मोक्षार्थं वनं गत इत्यर्थः। `अदेहबन्धाय` इत्यत्र प्रसज्यप्रतिषेधेऽपि नञ्समासं इष्यते ॥

Verse 8
तेन द्विपानामिव पुण्डरीको राज्ञामजय्योऽजनि पुण्डरीकः । शान्ते पितर्याहृतपुण्डरीका यं पुण्डरीकाक्षमिव श्रिता श्रीः ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): तेनेति॥ तेन नभसा। द्विपानां पुण्डरीको दिग्गजविशेष इव। राज्ञाः मजय्यो जेतुमशक्यः। `क्षय्यजय्यौ शक्यार्थे` (पा.6।1।81) इति निपातनात्साधुः। पुण्डरीकः पुण्डकाख्यः पुत्रोऽजनि जनितः। पितरि शान्ते स्वर्गं गते सति। आहृतपुण्डरीका गृहीतश्वेतपद्मा श्रीर्यं पुण्डरीकं पुण्डरीकाक्षं विष्णुमिव श्रिता ॥

Verse 9
स क्षेमधन्वानममोघघन्वा पुत्रं प्रजाक्षेमविधानदक्षम् । क्ष्मां लम्भयित्वा क्षमयोपपन्नं वने तपः क्षान्ततरश्चचार ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ अमोघं धनुर्यस्य सोऽमोघधन्वा। `घनुषश्च` (पा.5।4।132) इत्यनङादेशः समासान्तः। स पुण्डरीकः प्रजानां क्षेमविधाने दक्षं क्षमयोपपन्नं क्षान्तियुक्तं क्षेमं धनुर्यस्य तं क्षेमधन्वानं नाम पुत्रम्। `वा संज्ञायाम्` (पा.5।4।133) इत्यनङादेशः। क्ष्मां लम्भयित्वा प्रापय्य। लभेर्गत्यर्थत्वाद्द्विकर्मकत्वम्। क्षान्ततरोऽत्यन्तसहिष्णुः सन्। वने तपश्चचार ॥

Verse 10
अनीकिनीनां समरेऽग्रयायी तस्यापि देवप्रतिमः सुतोऽभूत् । व्यश्रूयतानीकपदावसानं देवादि नाम त्रिदिवेऽपि यस्य ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): अनीकिनीनामिति॥ तस्य क्षेमधन्वनोऽपि समरेऽनीकिनीनां चमूनामग्रयायी देवप्रतिम इन्द्रादिकल्पः सुतोऽभूत्। अनीकपदावसानमनीकशब्दान्तं देवादि देवशब्दपूर्वं यस्य नाम `देवानीक` इति नामधेयं त्रिदिवे स्वर्गेऽपि व्यश्रूयत विश्रुतम् ॥

Verse 11
पिता समाराधनतत्परेण पुत्रेण पुत्री स यथैव तेन । पुत्रस्तथवात्मजवत्सलेन स तेन पित्रा पितृमान्बभूव ॥
Metre: आर्यागीति
सञ्जीविनीटीका (मल्लिनाथः): पितेति॥ स पिता क्षेमधन्वा समाराधनतत्परेण शूश्रूषापरेण तेन पुत्रेण यथैव पुत्री बभूव तथैव स पुत्रो देवानीक आत्मजवत्सलेन तेन पित्रा पितृमान्बभूव। लोके पितृत्व-पुत्रत्वयोः फलमनयोरेवासीदित्यर्थः ॥

Showing 1461 to 1470 of 1569 verses