रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 1491 to 1500 of 1569 verses
Verse 32
तस्य प्रभानिर्जितपुष्परागं पौष्यां तिथौ पुष्यमसूत पत्नी । तस्मिन्नपुष्यन्नुदिते समग्रां पुष्टिं जनाः पुष्य इव द्वितीये ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): तस्येति॥ तस्य पुत्राख्यस्य पत्नी पौष्यां पुष्यनक्षत्रयुक्तायां पौर्णमास्यां तिथौ। `पुष्ययुक्ता पौर्णमासी पौषी` इत्यमरः। `नक्षत्रेण युक्तः कालः` (पा.4।2।3) इत्यण्प्रत्ययः। `टिड्ढाणञ्-` (पा.4।1।15) इत्यादिना ङीप्। प्रभया निर्जितः पुष्परागो मणिविशेषो येन तं पुष्यं पुष्याख्यमसूत। द्वितीये पुष्ये पुष्यनक्षत्र इव तस्मिन्नुदिते सति जनः समग्रां पुष्टिं वृद्धिमपुष्यन् ॥

Verse 33
महीं महेच्छः परिकीर्य सूनौ मनीषिणे जैमिनयेऽर्पितात्मा । तस्मात्सयोगादधिगम्य योगमजन्मनेऽकल्पत जन्मभीरुः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): महीमिति॥ महेच्छो महाशयः। `महेच्छस्तु महाशयः` इत्यमरः (अ.को.3|1|3)। जन्मभीरुः संसारभीरुः स पुत्रः सूनौ महीं परिकीर्य विसृज्य मनीषिणे ब्रह्मविद्याविदुषे जैमिनये मुनयेऽर्पितात्मा। शिष्यभूतः सन्नित्यर्थः। सयोगाद्योगिनस्तस्माज्जैमिनेर्योगं योगविद्यामधिगम्याजन्मने जन्मनिवृत्तये मोक्षायाकल्पत समपद्यत। क्लृपेः संपद्यमाने चतुर्थी वक्तव्या। मुक्तोऽभूदित्यर्थः ॥

Verse 34
ततः परं तत्प्रभवः प्रपेदे ध्रुवोपमेयो ध्रुवसंधिरुर्वीम् । यस्मिन्नभूज्ज्यायसि सत्यसंधे संधिर्ध्रुवः संनमतामरीणाम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तत इति॥ ततः परं स पुष्यः प्रभवः कारणं यस्य स तत्प्रभवः। तदात्मज इत्यर्थः। ध्रुवेणौत्तानपादिनोपमेयः। `ध्रुव औत्तानपादिः स्यात्` इत्यमरः (अ.को.1|3|22)। ध्रुवसंधिरुर्वीं प्रपेदे। ज्यायसि श्रेष्ठे सत्यसंधे सत्यप्रतिज्ञे यस्मिन् ध्रुवसंधौ संनमताम्, अनुद्धतानामित्यर्थः। अरीणां संधिर्ध्रुवः स्थिरोऽभूत्। ततः सार्थकनामेत्यर्थः ॥

Verse 35
सुते शिशावेव सुदर्शनाख्ये दर्शात्ययेन्दुप्रियदर्शने सः । मृगायताक्षो मृगयाविहारी सिंहादवापद्विपदं नृसिंहः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): सुत इति॥ मृगायताक्षो नृसिंहः पुरुषश्रेष्ठः स ध्रुवसंधिर्दर्शात्ययेन्दुप्रियदर्शने प्रतिपञ्चन्द्रनिभे सुदर्शनाख्ये सुते शिशौ सत्येव मृगयाविहारी सन्, सिंहाद्विपदं मरणमवापत्। व्यसनासक्तिरनर्थावहेति भावः ॥

Verse 36
स्वर्गामिनस्तस्य तमैकमत्यादमात्यवर्गः कुलतन्तुमेकम् । अनाथदीनाः प्रकृतीरवेक्ष्य साकेतनाथं विधिवञ्चकार ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): स्वरिति॥ स्वर्गामिनः स्वर्यातस्य तस्य ध्रुवसंधेरमात्यवर्गः। अनाथा नाथहीना अत एव दीनाः शोच्याः प्रकृतीः प्रजा अवेक्ष्य। कुलतन्तुं कुलावलम्बनमेकमद्वितीयं तं सुदर्शनम्। ऐकमत्याद्विधिवत् साकेतनाथमयोध्याधीश्वरं चकार ॥

Verse 37
नवेन्दुना तन्नभसोपमेयं शावैकसिंहेन च काननेन । रघोः कुलं कुड्मलपुष्करेण तोयेन चाप्रौढनरेन्द्रमासीत् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): नवेति॥ अप्रौढनरेन्द्रं तद्रघोः कुलं नवेन्दुना बालचन्द्रेण नभसा व्योम्ना। शावः शिशुरेकः सिंहो यस्मिन्। `पृथुकः शावकः शिशुः` इत्यमरः (अ.को.2|5|40)। तेन काननेन च। कुड्मलं कुड्मलावस्थं पुष्करं पङ्कजं यस्मिंस्तेन तोयेन चोपमेयमुपमातुमर्हम्। आसीत्। नवेन्द्वाद्युपमानेन तस्य वर्धिष्णुताशौर्यश्रीमत्त्वानि सूचितानि ॥

Verse 38
लोकेन भावी पितुरेव तुल्यः संभावितो मौलिपरिग्रहात्सः । दृष्टो हि वृण्वन्कलभप्रमाणोऽप्याशाः पुरोवातमवाप्य मेघः ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): लोकेनेति॥ स बालो मौलिपरिग्रहात्किरीटस्वीकाराद्धेतोः पितुस्तुल्यः पितृसरूप एव भावी भविष्यति इति लोकेन जनेन संभावितस्तर्कितः। तथा हि-कलभप्रमाणः कलभमात्रोऽपि मेघः पुरोवातमवाप्य। आशा दिशो वृण्वन्गच्छन् दृष्टो हि ॥

Verse 39
तं राजवीथ्यामधिहस्ति यान्तमाधोरणालम्बितमग्र्यवेशम् । षड्वर्षदेशीयमपि प्रभुत्वात्प्रैक्षन्त पौराः पितृगौरवेण ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ राजवीथ्यां राजमार्गेऽधिहस्ति हस्तिनि। विभक्त्यर्थेऽव्ययीभावः। यान्तं गच्छन्तम्, हस्तिनमारुह्य गच्छन्तमित्यर्थः। आधोरणालम्बितं शिशुत्वात्सादिना गृहीतमग्र्यवेशमुदारनेपथ्यं षड्वर्षाणि भूतः षड्वर्षः। `तद्धितार्थ-` (पा.2।1।51) इत्यादिना समासः। `तमधीषअटो भृतो भूतो भावी` इत्यधिकारे `चित्तवति नित्यम्` इति तद्धितस्य लुक्। ईषदसमाप्तः षड्वर्षः षड्वर्षदेशीयः। `ईषदसमाप्तौ-` (पा.5।3।67) इत्यादिना देशीयर्प्रत्ययः। तं षड्वर्षदेशीयमपि बालमपि तं सुदर्शनं पौराः प्रभुत्वात्पितृगौरवेण प्रैक्षन्त। पितरि यादृग्गौरवं तादृशे नैव ददृशिरित्यर्थः ॥

Verse 40
कामं न सोऽकल्पत पैतृकस्य सिंहासनस्य प्रतिपूरणाय । तेजोमहिम्ना पुनरावृतात्मा तद्व्याप चामीकरपिञ्जरेण ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): काममिति॥ स सुदर्शनः पैतृकस्य सिंहासनस्य कामं सम्यक्प्रतिपूरणाय नाकल्पत। बासत्वाद्व्याप्तुं न पर्याप्त इत्यर्थः। चामीकरषिञ्जरेण कनकगौरेण तेजोमहिम्ना पुनस्तेजः संपदा त्वावृतात्मा विस्तारितदेहः सन्, तत् सिंहासनं व्याप व्याप्तवान् ॥

Verse 41
तस्मादधधः किंचिदिवावतीर्णावसंस्पृशन्तौ तपनीयपीठम् । सालक्तकौ भूपतयः प्रसिद्धैर्ववन्दिरे मौलिभिरस्य पादौ ॥
सञ्जीविनीटीका (मल्लिनाथः): तस्मादिति॥ तस्मात्सिंहासनादपादानात् अधोऽधोदेशं प्रति किंचिदिवावतीर्णावीषल्लम्बौ तपनीयपीठं काञ्चनपीठमसंस्पृशन्तौ अल्पकत्वादव्याप्तौ सालक्तकौ लाक्षारसावसिक्तावस्य सुदर्शनस्य पादौ भूपतयः प्रसिद्धैरुन्नतैर्मौलिभिर्मुकुटैर्ववन्दिरे प्रणेमुः ॥

Showing 1491 to 1500 of 1569 verses