यस्य यस्य हि यो भावस्तेन तेन समाचरेत् । अनुप्रविश्य मेधावी क्षिप्रमात्म-वशं नयेत् ॥
Metre: अनुष्टुप्
भर्तुश्चित्तानुवर्तित्वं सुवृत्तं चानुजीविनाम् । राक्षसाश्चापि गृह्यन्ते नित्यं छन्दानुवर्तिभिः ॥
Metre: अनुष्टुप्
सरुषि नृपे स्तुति-वचनं तद्-अभिमते प्रेम तद्-द्विषि द्वेषः । तद्-दानस्य च शंसा अमन्त्र-तन्त्रं वशीकरणम् ॥
Metre: आर्या (१२, १८, १२, १५)
करटक आह— यद्येवमभिमतं तर्हि शिवास्ते पन्थानः सन्तु । यथाभिलषितमनुष्ठीयताम् । सोऽपि प्रणम्य पिङ्गलकाभिमुखं प्रतस्थे ।
अथागच्छन्तं दमनकमालोक्य पिङ्गलको द्वास्थमब्रवीत्-अपसार्यतां वेत्र-लता । अयमस्माकं चिरन्तनो मन्त्रिपुत्रो दमनकोऽव्याहत-प्रवेशः । तत्प्रवेश्यतां द्वितीय-मण्डल-भागी । इति ।
अथोपसृत्य दमनको निर्दिष्ट आसने पिङ्गलकं प्रणम्य प्राप्तानुज्ञ उपविष्टः । स तु तस्य नक-कुलिशालङ्कृतं दक्षिण-पाणिमुपरि दत्त्वा मान-पुरः-सरमुवाच-अपि शिवं भवतः । कस्माच्चिराद्दृष्टोऽसि ?
दमनक आह— न किंचिद्देव-पादानामस्माभिः प्रयोजनम् । परं भवतां प्राप्त-कालं वक्तव्यम्यत उत्तम-मध्यमाधमैः सर्वैरपि राज्ञां प्रयोजनम् । उक्तं च—
दन्तस्य निष्कोषणकेन नित्यं कर्णस्य कण्डूयनकेन वापि । तृणेन कार्यं भवतीश्वराणां किमाङ्ग वाग्घ-स्तवता नरेण ॥
Metre: उपजातिः
तथा वयं देव-पादानामन्वयागता भृत्या आपत्स्वपि पृष्ठ-गामिनो यद्यपि स्वमधिकारं न लभामहे तथापि देव-पादानामेतद्युक्तं न भवति । उक्तं च—