पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Enable Parallel


Showing 131 to 140 of 2815 verses
Verse 74
यस्य यस्य हि यो भावस्तेन तेन समाचरेत् । अनुप्रविश्य मेधावी क्षिप्रमात्म-वशं नयेत् ॥
Metre: अनुष्टुप्

Verse 75
भर्तुश्चित्तानुवर्तित्वं सुवृत्तं चानुजीविनाम् । राक्षसाश्चापि गृह्यन्ते नित्यं छन्दानुवर्तिभिः ॥
Metre: अनुष्टुप्

Verse 76
सरुषि नृपे स्तुति-वचनं तद्-अभिमते प्रेम तद्-द्विषि द्वेषः । तद्-दानस्य च शंसा अमन्त्र-तन्त्रं वशीकरणम् ॥
Metre: आर्या (१२, १८, १२, १५)

करटक आह— यद्येवमभिमतं तर्हि शिवास्ते पन्थानः सन्तु । यथाभिलषितमनुष्ठीयताम् । सोऽपि प्रणम्य पिङ्गलकाभिमुखं प्रतस्थे ।

अथागच्छन्तं दमनकमालोक्य पिङ्गलको द्वास्थमब्रवीत्-अपसार्यतां वेत्र-लता । अयमस्माकं चिरन्तनो मन्त्रिपुत्रो दमनकोऽव्याहत-प्रवेशः । तत्प्रवेश्यतां द्वितीय-मण्डल-भागी । इति ।

स आह— यथावादीद्भवानिति ।

अथोपसृत्य दमनको निर्दिष्ट आसने पिङ्गलकं प्रणम्य प्राप्तानुज्ञ उपविष्टः । स तु तस्य नक-कुलिशालङ्कृतं दक्षिण-पाणिमुपरि दत्त्वा मान-पुरः-सरमुवाच-अपि शिवं भवतः । कस्माच्चिराद्दृष्टोऽसि ?

दमनक आह— न किंचिद्देव-पादानामस्माभिः प्रयोजनम् । परं भवतां प्राप्त-कालं वक्तव्यम्यत उत्तम-मध्यमाधमैः सर्वैरपि राज्ञां प्रयोजनम् । उक्तं च—

Verse 77
दन्तस्य निष्कोषणकेन नित्यं कर्णस्य कण्डूयनकेन वापि । तृणेन कार्यं भवतीश्वराणां किमाङ्ग वाग्घ-स्तवता नरेण ॥
Metre: उपजातिः

तथा वयं देव-पादानामन्वयागता भृत्या आपत्स्वपि पृष्ठ-गामिनो यद्यपि स्वमधिकारं न लभामहे तथापि देव-पादानामेतद्युक्तं न भवति । उक्तं च—

Showing 131 to 140 of 2815 verses