पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Enable Parallel


Showing 101 to 110 of 2815 verses
Verse 50
अपि स्थाणुवदासीनः शुष्यन्परिगतः क्षुधा । न त्वज्ञानात्म-सम्पन्नाद्वृत्तिमीहते पण्डितः ॥
Metre: अनुष्टुप्

Verse 51
सेवकः स्वामिनं द्वेष्टि कृपणं परुषाक्षरम् । आत्मानं किं स न द्वेष्टि सेव्यासेव्यं न वेत्ति यः ॥
Metre: अनुष्टुप्

Verse 52
यस्याश्रित्य विश्रामं क्षुधार्ता यान्ति सेवकाः । सोऽर्कवन्नृपतिस्त्याज्यः सदा पुष्प-फलोऽपि सन् ॥
Metre: अनुष्टुप्

Verse 53
राज-मातरि देव्यां च कुमारे मुख्य-मन्त्रिणि । पुरोहिते प्रतीहारे सदा वर्तेत राजवत् ॥
Metre: अनुष्टुप्

Verse 54
जीवेति प्रब्रुवन्प्रोक्तः कृत्याकृत्य-विचक्षणः । करोति निर्विकल्पं यः स भवेद्राज-वल्लभः ॥
Metre: अनुष्टुप्

Verse 55
प्रभु-प्रसादजं वित्तं सुप्राप्तं यो निवेदयेत् । वस्त्राद्यं च दधात्यङ्गे स भवेद्राज-वल्लभः ॥
Metre: अनुष्टुप्

Verse 56
अन्तः-पुर-चरैः सार्धं यो न मन्त्रं समाचरेत् । न कलत्रैर्नरेन्द्रस्य स भवेद्राज-वल्लभः ॥
Metre: अनुष्टुप्

Verse 57
द्यूतं यो यम-दूताभं हालां हालाहलोपमम् । पश्येद्दारान्वृथाकारान्स भवेद्राज-वल्लभः ॥
Metre: अनुष्टुप्

Verse 58
युद्ध-कालेऽग्रणीर्यः स्यात्सदा पृष्ठानुगः पुरे । प्रभोर्द्वाराश्रितो हर्म्ये स भवेद्राज-वल्लभः ॥
Metre: अनुष्टुप्

Verse 59
सम्मतोऽहं विभोर्नित्यमिति मत्वा व्यतिक्रमेत् । कृच्छ्रेष्वपि न मर्यादां स भवेद्राज-वल्लभः ॥
Metre: अनुष्टुप्

Showing 101 to 110 of 2815 verses