पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Enable Parallel


Showing 91 to 100 of 2815 verses
Verse 44
उदीरितोऽर्थः पशुनापि गृहते हयाश्च नागाश्च वहन्ति चोदिताः । अनुक्तमप्यूहति पण्डितो जनः परेङ्गित-ज्ञान-फ्जला हि बुद्धयः ॥
Metre: उपजातिः

तथा च मनुः (८ । २६)—

Verse 45
आकारैरिङ्गितैर्गत्या चेष्टया भाषणेन च । नेत्र-वक्त्र-विकारैश्च लक्ष्यतेऽन्तर्गतं मनः ॥
Metre: अनुष्टुप्

तदद्यैनं भयाकुलं प्राप्य स्व-बुद्धि-प्रभावेन निर्भयं कृत्वा वशीकृत्य च निजां साचिव्य-पदवीं समासादयिष्यामि ।

करटक आह—अनभिज्ञो भवान्सेवा-धर्मस्य । तत्कथमेनं वशीकरिष्यसि ?

सोऽब्रवीत्- कथमहं सेवानभिज्ञः ? मया हि तातोत्सङ्गे क्रीडताभ्यागत-साधूनां नीति-शास्त्रं पठता यच्छ्रुतं सेवा-धर्मस्य सारं तद्हृदि स्थापितम् । श्रूयतां तच्चेदम्—

Verse 46
सुवर्ण-पुष्पितां पृथ्वीं विचिन्वन्ति नरास्त्रयः । शूरश्च कृत-विद्यश्च यश्च जानाति सेवितुम् ॥
Metre: अनुष्टुप्

Verse 47
सा सेवा या प्रभु-हिता ग्राह्या वाक्य-विशेषतः । आश्रयेत्पार्थिवं विद्वांस्तद्-द्वारेणैव नान्यथा ॥
Metre: अनुष्टुप्

Verse 48
यो न वेत्ति गुणान्यस्य न तं सेवेत पण्डितः । न हि तस्मात्फलं किञ्चित्सुकृष्टादूषरादिव ॥
Metre: अनुष्टुप्

Verse 49
द्रव्य-कृति-हीनोऽपि सेव्यः सेव्य-गुणान्वितः । भवत्याजीवनं तस्मात्फलं कालान्तरादपि ॥
Metre: अनुष्टुप्

Showing 91 to 100 of 2815 verses