उक्ताश्चतस्त्रः प्रथमाः क्रमेण क्रमादथान्याः प्रकटीक्रियन्ते।
अखण्डवाक्यार्थविवेचकानां शब्दार्थसम्वित्परिशुद्धिहेतोः॥ २१४॥
इति महाराजाधिराजश्रीभोजदेवविरचिते श्रृङ्गारप्रकाशे केवलशब्दसम्बन्धशक्तिप्रकाशो नाम
रेवाप्रसादेन सनातनेन श्रीभोजदेवस्य निबन्ध एषः।
कृतो विविक्तार्थ इति प्रसीदन्त्वत्रानुवीक्षाचतुरा महान्तः॥
१. संवादोऽत्र वाप. १.२४, मभा. १.१.५०