तस्याः सासद्यमानाया लोलूया-वान्रघूत्तमः ।असिं कौक्षेयमुद्यम्य चकाराऽप-नसं मुखम् ॥
Metre: अनुष्टुप्
"अहं शूर्प-णखा नाम्ना नूनं नाऽज्ञायिषि त्वया । दण्डोऽयं क्षेत्रियो येन मय्यपाती"ति साऽब्रवीत् ॥
Metre: अनुष्टुप्
पर्यशाप्सीद्दिवि-ष्ठाऽसौ संदर्श्य भय-दं वपुः ।अपिस्फवच्च बन्धूनां निनङ्क्षुर्विक्रमं मुहुः ॥
Metre: अनुष्टुप्
खर-दूषणयोर्भ्रात्रोः पर्यदेविष्ट सा पुरः । विजिग्राहयिषू रामं दण्डकारण्य-वासिनोः ॥
Metre: अनुष्टुप्
"कृते सौभागिनेयस्य भरतस्य विवासितौ । पित्रा दौर्भागिनेयौ यौ पश्यतं चेष्टितं तयोः ॥
Metre: अनुष्टुप्
मम रावण-नाथाया भगिन्या युवयोः पुनः ।अयं तापसकाद्ध्वंसः क्षमध्वं यदि वः क्षमम् ॥
Metre: अनुष्टुप्
अ-संस्कृत्रिम-संव्यानावनुप्त्रिम-फलाशिनौ ।अ-भृत्रिम-परीवारौ पर्यभूतां तथापि माम्।" ॥
Metre: अनुष्टुप्
"श्वःश्रेयसमवाप्तासि" भ्रातृभ्यां प्रत्यभाणि सा । प्राणिवस्तव मानाऽर्थं व्रजाऽऽश्वसिहि मा रुदः ॥
Metre: अनुष्टुप्
जक्षिमोऽनपराधेऽपि नरान्नक्तं-दिवं वयम् । कुतस्-त्यं भीरु ! यत्तेभ्यो द्रुह्यद्भ्योऽपि क्षमामहे।" ॥
Metre: अनुष्टुप्
तौ चतुर्दश-साहस्रबलौ निर्ययतुस्ततः । पारश्वधिक-धानुष्क-शाक्तिक-प्रासिकाऽन्वितौ ॥
Metre: अनुष्टुप्