अथ सम्पततो भीमान्विशिखै राम-लक्ष्मणौ । बहु-मूर्ध्नो द्वि-मूर्धांश्च त्रि-मूर्धाश्चाऽहतां मृधे ॥
Metre: अनुष्टुप्
तैर्वृक्ण-रुग्ण-सम्भुग्न-क्षुण्ण-भिन्न-विपन्न-कैः। । निमग्नोद्विग्न-संह्रीणैः पप्रे दीनैश्च मेदिनी ॥
Metre: अनुष्टुप्
के-चिद्वेपथुमासेदुरन्ये दवथुमुत्तमम् । स-रक्तं वमथुं केचिद्भ्राजथुं न च के-चन ॥
Metre: अनुष्टुप्
मृगयुमिव मृगोऽथ दक्षिणेर्मा दिशमिव दाह-वतीं मरावुदन्यन् । रघु-तनयमुपाययौ त्रि-मूर्धो विशभृदिवोग्र-मुखं पतत्रि-राजम् ॥
Metre: पुष्पिताग्रा
शित-विशिख-निकृत्तकृत्स्न-वक्त्रः क्षिति-भृदिव क्षिति-कम्प-कीर्ण-शृङ्गः । भयमुपनिदधे स राक्षसानाम-खिल-कुल-क्षय-पूर्व-लिङ्ग-तुल्यः ॥
Metre: पुष्पिताग्रा