निष्क्रान्तश्शङ्खचूडः पतगपतिमुखाद् वैनतेयो विनीत— स्तेन प्राग्भक्षिता ये विषधरपतयो जीवितास्तेऽपि सर्वे। मत्प्राणाप्त्या विमुक्ता न गुरुभिरसवश्चक्रवर्तित्वमाप्तं साक्षात्त्वं देवि दृष्टा प्रियमपरमतः किं मया प्रार्थनीयम्॥१९८॥ (नागा. ५.३९)
करुणानन्तरस्येयमुदाहरणपद्धतिः। प्रतर्शितानयैवासां समानन्यायमूह्यताम्॥१९९॥
अनन्तराणां सर्वेषामयमेकः प्रकृष्यते। रतिर्विस्रम्भचास्मिन् हि निष्कम्पत्वं प्रपद्यते॥२००॥
इति गदितमशेष विप्रलम्भस्वरूपोपहितनिजसमुत्थे श्लाघ्यश्रृङ्गारनाम्नः। रतिसमुदयरूपं जीवितं पुष्पकेतोर्निवसतु सुकवीनां सर्वदा मानसेषु॥२०१॥
इति श्रीमहाराजाधिरजश्रीभोजदेवविरचिते श्रृङ्गारप्रकाशे मानानन्तरादिप्रकाशो नाम ॥पञ्चत्रिंशः प्रकाशः॥३५॥
अभिनवमिदमुक्तं भोजराजेन शास्त्रं भजति हृदयकोषो विस्मयं येन गाढम्। अभिनव इति शब्दः सार्थकत्वेन युक्तोऽनुभवपथमुपेतः केवले भोजराजे॥