उक्ता यथामति मयान्यदतोऽभियुक्तैर्युक्त्यानयैव हि बहिस्स्थितमूहनीयम्॥ २४५॥
इति श्रीमहाराजाधिराजश्रीभोजदेवविरचिते श्रृङ्गारप्रकाशे करुणरसकरुणविप्रलम्भनिर्णयो नाम
॥ द्वात्रिंशः प्रकाशः॥ ३२॥
उहा पतिव्रतपरायणवल्लभेव याता त्वयैव विलयं सह भोज! राजन्।
यः काव्यमाद्रियत यश्च तदन्तरङ्ग— स्वारस्यमाश्रयत, सोऽत्र न कश्चिदन्यः॥