उग्गाहिअपंहुट्ठा दरजंपणमुक्कबहलणीसासा।
साहंति विरहदुक्खं असमत्तवअक्खरावि से उल्लावा॥ १४४॥
(उद्ग्राहितप्रस्मृता दरजल्पनमुक्तबहलनिःश्वासाः।
कथयन्ति विरहदुःखं असमाप्तवचोऽक्षरा अपि तस्या उल्लापाः॥)
८. तत्रैव विप्रलापो यथा—(सक. ५.३४१)
असमत्तो वि समप्पइ अपरिग्गहिअलहुआ परगुणालाओ।
तस्स पिआपडिबंधा ण समप्पइ रइ—सुहा समत्ता वि कहा॥ १४५॥
(असमाप्तोऽपि समाप्यते अपरिगृहीतलघुकः परगुणालापः।
तस्य प्रियाप्रतिबद्धा न समाप्यते रतिसुखा समाप्तापि कथा॥)