(अलिअं वंचअ—) वअणं पिज्जइ हालाहलविसमसज्जं।
जं हिअअं अबलंबधिरं/अवलंबिअ धीरं दिज्जसि माणस्स एत्ताहे॥ १३३॥
{(अलीकं वञ्चक) वचनं पीयते हालाहलं विषमसह्यम्।
यद् हृदय! अवलम्ब्य धैर्यं दीयसे मानायेदानीम्॥}
भ्रूभेदे रचितस्तदीक्षणपरे निस्तर्जिते लोचने गात्रं प्रावृतमंशुकेन सकलं वृत्तिर्गिरां संयता।
चेतः कौतुकविह्वलं भ्रमति मे तत् केन वा द्ृश्यते गत्वा दूति! तमानय प्रियतमं मानः कृतोऽयं मया॥ १३४॥
द्रष्टव्यादपसारिते च नयने रुद्धे च बाष्पाम्भसा कान्तं च स्फुरणेन गण्डयुगलं जातं च हर्षोल्लसत्।