भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 1441 to 1450 of 1822 verses
पुरा येनेयं मे चिरमनुसृता वाक्यपदवी स एवान्यो जातः सखि परिचिताः कस्य पुरुषाः॥ ३२२॥

५. हृदये शङ्कायां यथा—(अमरु.)

सखि! स सुभगो मन्दः स्‍नेहो मयीति न मे व्यथा विधिविरचितं यस्मात् सर्वो जनः सुखमश्‍नुते।

मम तु मनसः सन्तापोऽयं जने विमुखेऽपि यत् क्षणमपि हतव्रीडं चेतो न याति विरागिताम्॥ ३२३

६. दै ॰ ॰ ॰

ज्योतिर्भ्यस्तदिदं तमस्समुदितं जातोऽयमद्‍भ्यशिशखी पीयूषादिदमुत्थितं विषमयं छायाप्‍तजन्मातपः।

को नामास्य भवेत् प्रशान्तिषु विधिर्बाढं द्रढीयानयं ग्रन्थिर्यत् प्रियतोऽपि विप्रियमिदं सम्यक्कृतं सान्त्वनैः॥ ३२४॥

७. प्रिये तद्दोषापादने यथा—(गास. ९०४वे.)

भण भण जं जं पडिहाइ तुज्झ तं तं सहारि/मिमो अम्हे।

असहत्तणं च जीअं च वल्लभे दोविइ ण घडंति॥ ३२५॥

Showing 1441 to 1450 of 1822 verses