सहिअं गोत्तक्खलणं दिट्ठो अ पिओ अहिण्णमुहराओ।
एण्हिं वित्तवि (पिज्जइ) वाहोवाहिव्व पडिअ॥ ३२०॥
(सोढं गोत्रस्खलनं दृष्टश्च प्रियोऽभिन्नमुखरागः।
इदानीं पीयते तया बाष्पोदधिरिव पथिक॥)
३. ॰ ॰ ॰ ह्यप्रवृत्तौ यथा—
विलीनो विस्रम्भः सपदि तदपि प्रेम गलितं च्युताश्चित्राकाराः प्रणयसुभगास्ता अपि गिरः।
प्रियस्यैवं तत्तद्विनयबहिरङ्गव्यवसितं किमन्यद् दुःशानां हृदय नगरीचत्वरमसि॥ ३२१॥
४. सख्या दयितदोषाख्याने यथा—(अमरु. ९४)
इदं कृष्णं कृष्णं प्रियतम ननु श्वेतमधिकं गमिष्यामो यामो भवतु गमनेनापि भवतु।