वाचं-यमान्स्थण्डिल-शायिनश्च युयुक्षमाणाननिशं मुमुक्षून् ।अध्यापयन्तं विनयात्प्रणेमुः पद्गा भरद्वाज-मुनिः स-शिष्यं ॥
Metre: उपजातिः
आतिथ्यमेभ्यः परिनिर्विवप्सोः कल्प-द्रुमा योग-बलेन फेलुः । धाम-प्रथिम्नो म्रदिमाऽन्वितानि वासांसि च द्राघिम-वन्त्युदूहुः ॥
Metre: इन्द्रवज्रा
आज्ञां प्रतीषुर्विनयादुपास्थुर्जगुः सरागं ननृतुः स-हावम् । स-विभ्रमं नेमुरुदारमुचुस्तिलोत्तमाऽऽद्या वनिताश्च तस्मिन् ॥
Metre: उपजातिः
वस्त्राऽन्न-पानं शयनं च नाना कृत्वाऽवकाशे रुचि-संप्रक्wxल्क़्क़्प्तम् । तान्प्रीति-मानाह मुनिस्ततः स्म "निवध्वमाध्वं पिबताऽत्त शेध्वम् ॥
ते भुक्तवन्तः सु-सुखं वसित्वा वासांस्युषित्वा रजनीं प्रभाते । द्रुतं समध्वा रथ-वाजि-नागैर्मन्दाकिनीं रम्य-वनां समीयुः ॥
Metre: उपजातिः
वैखानसेभ्यः श्रुत-राम-वार्तास्ततो विशिञ्जान-पतक्त्रि-सङ्घम् ।अभ्रं-लिहाऽग्रं रवि-मार्ग-भङ्गमानंहिरेऽद्रिं प्रति चित्र-कूटम् ॥
Metre: उपजातिः
दृष्ट्वोर्णुवानान्ककुभो बलौघान्वितत्य शार्ङ्गं कवचं पिनह्य । तस्थौ सिसंग्रामयिषुः शितेषुः सौमित्रिरक्षि-भ्रुवमुज्जिहानः ॥
Metre: उपजातिः
शुक्लोत्तरासङ्ग-भृतो वि-शस्त्रान्पादैः शनैरापततः प्र-मन्यून् ।औहिष्ट तान्वीत-विरुद्ध-बुद्धीन्विवन्दिषून्दाशरथिः स्व-वर्ग्यान् ॥
Metre: उपजातिः
स-मूल-काषं चकषू रुदन्तो रामाऽन्तिकं बृंहित-मन्यु-वेगाः ।आवेदयन्तः क्षिति-पालमुच्चैः- कारं मृतं राम-वियोग-शोकात् ॥
Metre: उपजातिः
चिरं रुदित्वा करुणं स-शब्दं गोत्राऽभिधायं सरितं समेत्य । मध्ये-जलाद्राघव-लक्ष्मणाभ्यां प्रत्तं जलं द्व्यञ्जलमन्तिकेऽपाम् ॥
Metre: उपजातिः