एतौ स्म मित्रा-वरुणौ किमेतौ किमश्विनौ सोम-रसं पिपासू । जनं समस्तं जनकाऽऽश्रम-स्थं रूपेण तावौजिहतां नृ-सिंहौ ॥
Metre: उपजातिः
अजिग्रहत्तं जनको धनुस्तद् "येनाऽर्दिदद्दैत्य-पुरं पिनाकी" । जिज्ञासमानो बलमस्य बाह्वोर्। हसन्नभाङ्क्ष्वीद्रघु-नन्दनस्तत् ॥
Metre: उपजातिः
ततो नदी-ष्णान्पथिकान्गिरि-ज्ञा- नाह्वायकान्भूमि-पतेरयोध्याम् । दित्सुः सुतां योध-हरैस्तुरङ्गैर्व्यसर्जयन्मैथिल-मर्त्य-मुख्यः ॥
Metre: उपजातिः
क्षिप्रं ततोऽध्वन्य-तुरङ्ग-यायी यविष्ठ-वद्वृद्ध-तमोऽपि राजा ।आख्यायकेभ्यः श्रुत-सूनु-वृत्ति- र-ग्लान-यानो मिथिलामगच्छत् ॥
Metre: उपजातिः
वृन्दिष्ठमार्चीद्वसुधा-धिपानां तं प्रेष्ठमेतं गुरु-वद्गरिष्ठम् । सदृङ्-महान्तं सुकृताऽधिवासं बंहिष्ठ-कीर्तिं यशसा वरिष्ठम् ॥
Metre: उपजातिः
त्रि-वर्ग-पारीणमसौ भवन्त- मध्यासयन्नासनमेकमिन्द्रः । विवेक-दृश्व-त्वमगात्सुराणां तं मैथिलो वाक्यमिदं बभाषे ॥
Metre: उपजातिः
हिरण्मयी साल-लतेव जङ्गमा च्युता दिवः स्थास्नुरिवाऽचिर-प्रभा । शशाङ्कं-कान्तेरधिदेवताऽऽकृतिः सुता ददे तस्य सुताय मैथिली ॥
Metre: वंशस्थम्
लब्धा ततो विश्वजनीन-वृत्तिस्- तामात्मनीनामुदवोढ रामः । सद्-रत्न-मुक्ता-फल-भर्म-शोभां संबंहयन्तीम्रघु-वर्ग्य-लक्ष्मीम् ॥
Metre: इन्द्रवज्रा
सु-प्रातमासादित-संमदं तद्वन्दारुभिः संस्तुतमभ्ययोध्यम् ।अश्वीय-राजन्यक-हास्तिकाऽऽढ्य- मगात्स-राजं बलमध्वनीनम् ॥
Metre: उपजातिः
विशङ्कटो वक्षसि बाण-पाणिः संपन्न-ताल-द्वयसः पुरस्तात् । भीष्मो धनुष्मानुपजान्वरत्नि- रैति स्म रामः पथि जामदग्न्यः ॥
Metre: उपजातिः